________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kalassagarsuri Gyanmandir
मानात कोपादा। प्रणयकोपादिति सम्पिण्डितोऽर्थः । परिचिक्षेप निनिन्द ॥२॥ किं वेति । मां त्यक्त्वा वनं गतं त्वां यदि मे पिता शृणुयात्तदा त्वां रुयेव काचित् पुरुषवेषं धृत्वा मत्कन्यामुपयेमे इति मन्येतेत्यर्थः । हे राम सौन्दर्य्यमात्रेण परभ्रामक ! वैदेहः विदेहवंझ्यः “कर्मणैव हि संसिद्धिमास्थिता जनकादयः" इतिकर्मप्रधानतया कदाचिदपि पत्रीविरहमसहमान इत्यर्थः। मिथिलाधिपः जनपदस्य सम्यग्रक्षकः। मे पिता। त्वा मामेका रक्षितुमशक्त्या
किं त्वाऽमन्यत वैदेहः पिता मे मिथिलाधिपः। राम जामातरं प्राप्य स्त्रियं पुरुषविग्रहम् ॥३॥
अनृतं बत लोकोऽयमज्ञानाद्यद्धि वक्ष्यति । तेजो नास्ति परं रामे तपतीव दिवाकरे ॥४॥ मां पत्नी त्यक्त्वा गतं त्वाम् । प्राप्य ज्ञात्वा । गत्यर्थों ज्ञानार्थः । खियम् अन्तःस्त्रीस्वभावम् । पुरुषविग्रहं बहिःपुरुषवेषम् । जामातरम् अमन्यत किं मन्यते किम् । अवश्यमित्थं मन्यतेत्यर्थः । स्त्रियं पुरुषविग्रहमिति पुरुषत्वेपि मोहिनीरूपभ्रमकृत्त्वं पूर्वकृतं सूचयतीति प्राहुः ॥३॥ अनृतमिति । तदेवाह-किं त्वेति । हे राम! त्वा त्वाम् । पुरुषविग्रहम् आकारमात्रेण पुरुषम् । त्रियमेव सन्तं जामातरं प्राप्य किममन्यत,तत् त्वं न ज्ञातवानित्यर्थः । यदि जानाति | तहि मां तुभ्यं न प्रयच्छेदित्याक्षेपशेषः। यद्वा "स एव वासुदेवोऽयं साक्षात्पुरुष उच्यते । वीप्रायमितरत्सर्व जगद्ब्रह्मपुरस्सरम्॥" इति श्रीविष्णुपुराणोक्तेः । वैदेहो मे पितात्वा जामातरं प्राप्य लोके त्वयतिरिक्त पुरुषविग्रहं पुरुषाकृति सर्वमपि स्त्रियममन्यत,किं किमर्थममन्यतः एतादृशकातरं त्वां तथामन्यानो भ्रान्त इत्यर्थः। यद्वा किन्विति । रामज अमातरम् प्राप्य खियं पुरुष विग्रहम् इति पदच्छेदः। हेरामज रमयितुं जात अवतीर्णेति, हे पुरुष क्रीडार्थमवतीर्ण, परमपुरुषेत्यर्थः । अमातरं खियं मातृव्यतिरिक्तां सपत्नीमातरं कैकेयीं प्राप्य उद्दिश्य वैदेहो मे पिता विग्रहं कलहम् अमन्यत किम् ? नामन्यतेव । कैकेय्या सह एतादृशकलह आयास्यतीति न जातवानित्यर्थः । तथापि न मां विहाय त्वया वनं गन्तव्यमिति भावः । यद्वा रामजामतरमित्येकं पदम् । पुरुषविग्रहम् पुरुषान् भक्तान विशेषेण गृहाति स्ववशी करोतीति तथा,रामजामातरम् “रमन्ते योगिनोऽनन्ते"इति श्रुतेः आनन्दरूपजामातरं त्वां प्राप्य, वैदेहो मे पिता खियं स्वस्त्रियम् । नियमित्युपलक्षणम्, पुत्रमित्रकल त्रादिकमामुष्मिकं च सत्यममन्यत किम् ? किन्तु सर्व तुच्छमिति ज्ञात्वा परमानन्दपूर्णोऽभूत्, एतादृशसर्वानन्दकरस्त्वं मां कथं व्यथयसीति भावः ॥ ३॥ अनूत मिति । बतेति खेदे। अयं लोकः तपति दिवाकर इव रामे परं तेजोऽस्तीति अज़ानादविचाराद्यद्वक्ष्यति तदनुतम् । कुतः नास्तीति, अनुपलभ्यमानत्वात्तादृशतेजो
सत्य०-देहो जनकः । त्वां जामातरं प्राप्य कादशं स्त्रियं त्रियया पुरुषाकार एतादृशं त्वां किममन्यत तव स्वरूप न ज्ञातवान् । यदि जानीयाहि न तुभ्यं प्रयच्छेदित्यर्थः । अथवा जगतो मातेति नियं पितेति पुरुषविग्रहं “ एष स्त्री एव पुरुषः" इति श्रुतिमनेन कटाक्षपत्यन्तरगतः सीतेति शेषम् । तादृशं त्वां प्राप्य त्वत्स्वरूर इत्थमिति नामन्यत किं न ज्ञातवान् ॥ ३ ॥ तपति तापवितार | दिवाकरे सूर्य व रामे तेज इति नास्ति । लोकोऽज्ञानाद्यवस्तीति वक्ष्यति तदनून यतेत्यन्वयः । यद्वा त्वमपि न जनकमनोरजिनीति “ यादशो वक्षस्तादृशो बलि: " इति न्यायेन दान मामिति न वदेत्यपाह । दिवाकरे तद्विषये। पती तत्पुत्रीवाहं तत्प्रीतिमतीति । तपति दिवाकरे कियत्तेजः अन्याधीनं च तावत्तथा रामोस्तीति न किन्तु ततः परमधिकं स्वतन्त्रं च । शिष्ट स्पष्टम् । " तमेव मान्तमनुमाति सर्वम् " इत्यादेः ॥ ४ ॥
For Private And Personal Use Only