________________
Shri Mahavir Jain Aradhana Kendra
Acharya Shri Kailassagarsur Gyarmandir
टी.अ.का.
भक्तामिति । सुखदुःखयोःसमा प्राप्तयोः सुखदुःखयोरेकरूपाम् । समानसुखदुःखिनी वत्समानसुखदुःखाम् ॥२०॥ यदीति । आस्थास्ये स्वीकरिष्ये |॥२१॥ एवमिति । याचते अयाचत । विजनं बन्धुजनरहितम् ॥२२॥ एवमिति । गां भवम् ॥२३ ॥ चिन्तयन्तीमिति । ताम्रोष्टीमित्यनेना ॥११०||
सान्त्वादिना स्थातुमशक्यत्वमुच्यते ॥२४॥ इति श्रीगोविन्द श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने एकोनत्रिंशः सर्गः ॥२९॥
भक्तां पतिव्रतां दीनां मां समां सुखदुःखयोः। नेतुमर्हसि काकुत्स्थ समानसुखदुःखिनीम् ॥२०॥ यदि मां दुःखिता मेवं वनं नेतुं न चेच्छसि । विषमग्निं जलं वाहमास्थास्ये मृत्युकारणात्॥२१॥एवं बहुविधं तं सा याचते गमनं प्रति। नानुमेने महाबाहुस्तां नेतुं विजनं वनम् ॥ २२ ॥ एवमुक्ता तु सा चिन्तां मैथिली समुपागता। स्नापयन्तीव गा मुष्णैरश्रुभिर्नयनच्युतैः॥२३॥ चिन्तयन्ती तथा तां तु निवर्तयितुमात्मवान् । ताम्रोष्टी स तदा सीतां काकुत्स्थो बह्वसान्त्वयत् ॥२४॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे एकोनत्रिंशः सर्गः ॥२९॥ सान्त्व्यमाना तु रामेण मैथिली जनकात्मजा । वनवासनिमित्ताय भर्तारमिदमब्रवीत् ॥१॥ सा तमुत्तमसंविना
सीता विपुलवक्षसम् । प्रणयाच्चाभिमानाच्च परिचिक्षेप राघवम् ॥ २॥ सान्त्व्यमानेति । जनकात्मजेतिविशेषणं स्वकुलोचिताचारदाढाय । वनवासानिमित्ताय वनवास एव निमित्तं प्रयोजनं तस्मै ॥३॥ सेति । उत्तमसंविना उत्तममत्यन्तं कम्पमाना। विपुलवक्षसं शूमितियावत् । शूरमपि कथं चिक्षेपेत्यवाह प्रणयादित्यादि । प्रणयात् हात्। अभिमानात मदीयोऽयमित्यभि त्यर्थः । अस्मात् नगरात । स्वकां स्वीयाम् ॥ १९॥ भक्तामिति । सुखदुःखयोस्समां त्वदेकशरणाम् अत एव समानदुःखिनी त्वयासह एकसुखदुःखिनीम् ॥२०-२४॥ Kalइति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्त्वदीपिकाख्यायामयोध्याकाण्डव्याख्यायाम् एकोनत्रिंशः सर्गः ॥२९ ।। सान्तप्यमानेति । वनवासनिमित्ताय बनवास निमित्तानुभतिसिद्धचर्चम् ॥ १ ॥ सेति । उत्तमसंविग्ना, अतिभीतेति यावत् । प्रणयात नेहात् अभिमानात कोपात परिचिक्षेप वचन मुक्तवती ॥२॥
सत्य-सा अयाचत । इतिछेदः । ई लक्ष्मीः सीता ॥ २२ ॥ वनवासनिमित्ताम्-पनवास एवं निमित्तं यस्य रावणहननादेस बननासनिमित्तः, स एवार्थः प्रयोजन यस्य त रामम् ॥१॥
17
॥१०॥
For Private And Personal Use Only