________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
त्वया सह वनवासस्य गमनं लीलार्थ जाह्नवीतीरतपोवनादिगमनं कांक्षितं हि त्वं च बहुविधं प्रसादितो वे प्रसादित एवेति सम्बन्धः ॥ १३॥ १४॥ कृतक्षणेति । कृतक्षणा कृतोत्सवा । “निर्व्यापारस्थिती कारविशेपोत्सवयोःक्षणः" इत्यमरः । वनवासस्य बने वासो यस्य इति वनवासः तस्य । शूरस्य तव चर्या परिचर्या । मम मह्यं रोचते ॥ १५॥ शुद्धात्मनिति । शुद्धात्मन् ईर्ष्यादिरहित ! प्रेमभावात प्रेमस्वभावात् । हिः प्रसिद्धौ । भत्तार
प्रसादितश्च वै पूर्व त्वं वै बहुविध प्रभो । गमनं वनवासस्य कांक्षितं हि सह त्वया ॥ १४ ॥ कृतक्षणाहं भद्र ते गमनं प्रति राघव । वनवासस्य शूरस्य चर्या हिमम रोचते ॥ १५ ॥ शुन्दात्मन् प्रेमभावाद्धि भविष्यामि विकल्मषा भर्तारमनुगच्छन्तीभा हिमम दैवतम् ॥ १६॥प्रेत्यभावेऽपिकल्याणः सङ्गमो मे सह त्वया ॥ १७॥ श्रुतिर्हि श्रूयते पुण्या ब्राह्मणानां तपस्विनाम् । इह लोके च पितृभिर्या स्त्री यस्य महामते। अद्भिर्दत्ता स्वधर्मेण प्रेत्यभावेपि तस्यसा ॥ १८॥ एवमस्मात् स्वकां नारी सुवृत्तां हि पतिव्रताम् । नाभिरोचयसे नेतुं त्वं मां केनेह हेतुना॥ १९॥ त्वामनुगच्छन्ती विकल्मषा विगतकल्मषा भविष्यामि । नन्वत्रैव स्थित्वा कुलदेवतामाराध्य विशुद्धा भवेत्यत्राह भर्ता हि मम दैवतमिति ॥ १६॥ प्रेत्यभाव इति । प्रेत्यभावेऽपि परलोकेऽपि । त्वया सह सङ्गमः कल्याणः शोभनः ।। १७॥ अत्र प्रमाणमाह-श्रुतिहत्यिादिसाश्लोकेन । पितृभिरिति बहुवचनं पितामहाद्यपेक्षया। श्रुतिमेवाह इहेति । महामत इत्यनेन न त्वां बोधयामीति सूच्यते । स्वधर्मेण स्वस्ववर्णोक्तब्राह्मादिविवाहविधिना ॥ १८॥ एवमिति । एवं पूर्वोक्तश्रुतिरूपप्रबलप्रमाणसद्भावेऽपीत्यर्थः । अस्मानगरात् नेतुमित्यनेनान्वयः। यदा अस्मात् अद्भिर्दानादेतोः ॥ १९ ॥ विलासार्थ जाह्नवीतीरतपोवनादिगमनं काङ्गितं हि, त्वं च बहुविधं प्रसादितो वैप्रसादित एवेति सम्बन्धः ॥ १३ ॥ १४ ॥ कृतक्षणेति । कृतक्षणा प्राप्तावसरा, प्रतीक्षितकालेत्यर्थः । वनवासस्य बने वासो यस्य सः वनवासः । तस्य तव चर्या शुश्रूषा मम रोचते ॥ १५ ॥ शुद्धात्मन्निति । शुद्धात्मन् ! प्रेमस्वभावाद्भर्तारमनु गच्छन्ती अहं विकल्मषा भविष्यामि । कुतः ? भर्ता हिमम दैवतम् ॥ १६॥ प्रेत्येति । त्वया सह सङ्गमः प्रेत्यभावेपि परलोकेपि कल्याणः शोभनः ॥ १७ ॥ अत्र प्रमाणमाह-श्रुतिहीत्यादिसार्धश्लोकेन । पितृभिरिति बहुवचनं पितामहाद्यपेक्षया । पितृभिर्या स्त्री अद्भिः सह यस्य यस्मै दत्ता सा इह लोके स्वधर्मेण पतिव्रताधर्मेण वर्तमाना प्रेत्यभावेपि तस्यैव भवतीति श्रुतिः ब्राह्मणानां सकाशार यत इति सम्बन्धः ।। १८ ॥ पवमिति । श्रुतिस्मृतिन्यायतो नित्यसम्बन्धे सिद्धे सती|
For Private And Personal Use Only