________________
Shri Mahavir Jain Aradhana Kendra
Acharya Sh Kalassagarsun Gyarmandir
www.kabatirth.org
अहोरात्रमिति । अहोरात्रं सायम्पातश्च । वृक्षावपतितैः वृक्षात्स्वयं पतितैः फलैः । नियतात्मना नियतमनस्केन, इतरानभिलाषिणेत्यर्थः। वनवासिना सन्तोषः भोजनतृप्तिः कर्त्तव्यः ॥ १२ ॥ उपवास इति । यथाप्राणेन यथाशक्त्या ॥ १३ ॥१४॥ कार्य इति। त्रिरभिषेकश्च नैककाल इत्याह कालेकाल इति । प्रातमध्याह्नसायालेष्वित्यर्थः । एतच्च न कतिपयदिनेषु किन्तु प्रतिदिनमित्याह नित्यश इति ॥ १५॥ उपहार इति । उप
अहोरात्रं च सन्तोषः कर्तव्यो नियतात्मना । फलेवृक्षावपतितैः सीते दुःखमतो वनम् ॥१२॥ उपवासश्च कर्तव्यो यथाप्राणेन मैथिलि। जटाभारश्च कर्तव्यो वल्कलाम्बरधारिणा ॥१३॥ देवतानां पितृणां च कर्तव्यं विधिपूर्वकम् । प्राप्तानामतिथीनां च नित्यशः प्रतिपूजनम् ॥१४॥ कार्यस्त्रिरभिषेकश्च कालेकाले च नित्यशः। चरता नियमेनैव तस्माद्दुःखतरं वनम् ॥ १५ ॥ उपहारश्च कर्तव्यः कुसुमैः स्वयमाहृतैः । आर्षेण विधिना वेद्या बाले दुःखमतो वनम् ॥१६॥ यथालब्धेन सन्तोषः कर्त्तव्यस्तेन मैथिलि । यताहारैर्वनचरैनित्यं दुःखमतो वनम् ॥१७॥ अतीव वातास्तिमिरं बुभुक्षा चात्र नित्यशः। भयानि च महान्त्यत्र ततो दुःखतरं वनम् ॥ १८॥ सरीसृपाश्च बहवो बहुरूपाश्च भामिनि । चरन्ति ष्टथिवीं दत्तितो दुःखतरं वनम् ॥ १९॥ नदीनिलयनाः सर्या नदीकुटिल
गामिनः। तिष्ठन्त्यावृत्य पन्थानं ततो दुःखतरं वनम् ॥ २०॥ हारो बलिः । “उपहारो बलिमतः" इति हलायुधः। आर्पण ऋषिप्रोक्तेन । विधिना कल्पेन ॥१६॥ यथेति । यथालन्धेन यावलब्धेन तेन फलादिना
आहारेण सन्तोषः तृप्तिः । यताहारैनियताहारैः ।।१७। अतीति । अत्र वने वाताश्चातीव बहुलाः ।तिमिरञ्च रात्रिष्वतीवास्ति । बुभुक्षा चातीव भवति । Mभयानि पर्वोक्तानि ॥१८॥सरीमपाइति । सरीमपाः गिरिसर्पाः। बहुरूपाः पृथुशरीराः॥१९॥ नदीनिलयना इति । नदीकुटिलगामिनः नदीवत् कुटिला
अहोरात्रमिति । वृक्षावपतितः वृक्षेभ्यः स्वयमेव पतितैः फलैरेव अहोरात्र प्रातः सायं च सन्तोषः तृप्तिः कार्यः ॥ १२ ॥ उपवासति । यथाप्राणेन यथाबलानु सारेण (“ तृतीया सप्तम्योबहुलम्" इत्युक्ते म्भावः।) ॥ १३ ॥ १४ ॥ कार्यविरिति । नित्यशः प्रतिदिनं कालेकाले प्रातरादिकाले अभिषेकरित्रः कार्य, विषवणानं कर्तव्यमित्यर्थः । नियमेव चरता कालक्षेषं कुर्वता ॥ १५ ॥ उपहार इति । उपहारः पूजा । आर्येण विधिना वानप्रस्थोचितविधानेन ॥१६॥ यथेति । यथाहाः बनस्थैः यथालन्धेन पारशं वस्तु यथा प्रामोति तेन रूपेणेत्यर्थः ॥ १७ ॥ अतीवेति । तिमिरं, रात्रिप्षिति शेषः ॥ १८ ॥ १९ ॥ नदीति । नदीवत्कुटिल
For Private And Personal Use Only