________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatirth.org
Acharya Shri Kailassagarsur Gyanmandie
॥२०७॥
जा.रा.भ.बुद्ध्या नतु त्वद्भरणक्लेशेन ॥ ६॥ महावने विद्यमानान् दोषानाह-गिरिनिझरेत्यादि । गिरिनिर्झरसम्भूताः गिरिनिझरेषु प्रवृद्धाः। श्रोतुं दुःखाःटो .अ.का.
दुःखकराः । अतो वनं दुःखं दुःखकरम् ॥ ७॥ कीडमाना इति । शून्ये निर्मानुषे प्रदेशे । विस्रब्धाः निःशङ्काः सन्तः । कीडमानाः क्रीडन्तः । अतएव मत्ताः महामृगाः सिंहशार्दूलादयः । अस्मान् दृष्ट्वा अपूर्वदर्शनात्समभिवर्तन्ते हन्तुमभिमुखमागच्छेयुः ॥८॥ सग्राहा इति । सग्राहाः
गिरिनिर्झरसम्भूता गिरिकन्दवासिनाम् । सिंहानां निनदा दुःखाः श्रोतुं दुःखमतो वनम् ॥ ७॥ क्रीडमानाश्च विस्रब्धा मत्ताः शून्ये महामृगाः । दृष्ट्वा समभिवर्तन्ते सीते दुःखमतो वनम् ॥८॥ सग्राहाः सरितश्चैव पङ्कवत्यश्च दुस्तराः। मत्तैरपि गर्जेनित्यमतो दुःखतरं वनम् ॥ ९॥ लताकण्टकसङ्कीर्णाः कृकवाकूपनादिताः । निरपाश्च सुदुर्गाश्च मार्गा दुःखमतो वनम् ॥ १०॥ सुप्यते पर्णशय्यासु स्वयंभग्नासु भूतले । रात्रिषु श्रमखिन्नेन
तस्माद्दुःखतरं वनम् ॥ ११॥ सनकाः। पङ्कपत्यः बहुपङ्काः । मत्तैगजैरुपलक्षिताश्च । अत एव दुस्तराः सरितः सन्ति । अतो दुःखतरं पूर्वोक्तदुःखसम्मेलनादतिशयेन दुःखवत् ॥९॥ यत्र न निझरादयस्तेनैव मार्गेण गमिष्याम इत्यत्राह-लता इति । लताः पदाकर्षिण्यः, कण्टकाः पादवेधकाः । कृकवाकवः वनकुकटास्तैरुपनादिताः तत्रादयुक्ता इत्यर्थः । तन्नादा अप्यश्रुतपूर्वत्वात् भयावहा एव । निरपाः निर्गतजलाः।"ऋकपूरन्धू:-" इत्यादिना समासान्तः अप्रत्ययः॥१०॥ सुप्यत इति । भूतले न तु पर्यः । तत्रापि पर्णशय्यासु नतु मृदुतूलास्तरणेषु । तत्रापि स्वयं भग्नासु जीर्णतया स्वयमेव पतितासु । रात्रिषु नत्वहःसु । श्रमखिन्नेन फलमूलाद्याहरणश्रमदुःखितेन, वनवासिना सुप्यते अतोऽस्माभिरपि तथा स्वपितव्यमिति भावः ॥११॥ नास्तीति जानामि निश्चिनोमि ॥ ६ ॥ गिरिनिर्झरेति । गिरिनिर्झरसम्भूताः गिरिनिर्झरेभ्यः सम्भूताः प्रभूताः निनदाः तथा गिरिकन्दरवासिना सिंहानां निनदाश्च श्रोतुं दुःखाः कष्टाः अतो वनं दुःखं दुःखप्रदम् ॥ ७॥ क्रीडमानाचेति । विम्रब्धाः निरङ्कशाः, शून्ये निर्मानुषे समभिवर्तन्ते हन्तुमागच्छेयुरित्यर्थः॥८॥ संग्राहा
॥१०७॥ इति । गजैरपि दुस्तराः सरितः इति योजना ॥९॥ लतेति । कृकवाकूपनादिताः वनकुकटनादयुक्ताः। निरपाः निर्गतोदकाः ॥ १०॥ सुप्यत इति । स्वयं भग्नासु जीर्णतया स्वयमेव पतितासु पर्णशय्यास “सान्द्रपणेवेव शयीत" इत्युक्तेः। श्रमखिनेन दिवा फलाद्यानयन श्रमखिन्नेन भया उक्तशय्यायां सुप्यते ॥ ११ ॥
For Private And Personal Use Only