________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsun Gyarmandie
वा.रा.भ..दर्शयति-तमेवमिति । एवङ्गणसम्पन्नत्ववत्, बतसम्पन्नं आश्रितसंरक्षणरूपव्रतसंपन्नम् । अप्रधृष्यपराक्रमं अकुण्ठपराकमम् । सर्वे लोकपाला उपमा टी.अ.का.
यस्य तं रामं मेदिनी नाथं अकामयत भूमे थत्वोचितोऽभूदित्यर्थः । अथवा एवं बालकाण्डोक्तरीत्या व्रतसम्पन्नं 'रामस्तु सीतया सार्द्धम् ' इत्युक्त रीत्या क्रीडारससम्पन्नम् । अप्रधृष्यपराक्रमं विरोधिवर्ग निवर्त्य सात्म्यभोगप्रदम् । लोकान् पालयतीति लोकपालः, समस्तोपभोगसाधनसम्पन्न इत्यर्थः। उप समीपे मा लक्ष्मीः सीतारुपा यस्य सः उपमः। लोकपालश्वासावुपमश्चेति समासः। तं लक्ष्म्या भोगाननुभवन्तं रामं मेदिन्यपि नाथमकामयत,
एतैस्तु बहुभिर्युक्तं गुणैरनुपमैः सुतम् । दृष्ट्वा दशरथो राजा चक्रे चिन्तां परन्तपः ॥३४॥ अथ राज्ञो बभूवैवं वृद्धस्य चिरजीविनः। प्रीतिरेषा कयं रामो राजा स्यान्मयि जीवति ॥ ३५॥
एषा ह्यस्य परा प्रीतिर्हृदि संपरिवर्तते । कदा नाम सुतं द्रक्ष्याम्यभिषिक्तमहं प्रियम् ॥ ३६ ॥ स्वयंवरेण कण्ठे मालिकां दातुमैच्छदित्यर्थः ॥ ३३ ॥ तनि०-एवं वृनसम्पन्नं लोकपालः उपेन्द्रः तस्य स्थितिकर्तृत्वेनावतारात्स उपमा यस्य तं नाथत्वेनाकाम यत । मेदिनीशब्दन मंदिनीस्थायिनी जना लक्ष्यन्ते " मश्चाः कोशन्ति " इतिवदिति केचित् । मेदिनी तदधिष्ठानदेवता अकामयत । शिष्टपरिपालनदुष्टनिग्रहयो | मंदिन्या एवं हर्षहेतुत्वात् । तथोक्तम्-'भूमिहतनृपव्याजदत्यानीकशतायुतैः। आक्रान्ता भूरिभारेण ब्रह्माणं शरणं ययौ ॥" इति ॥३३॥ न केवलं लोकस्तं नाथमका मयत राजापीत्याह-एतैरिति । एतैः पूर्वोक्तैः । बहुभिः असङ्घययैः अनुपमैः लोके कुत्राप्येतादृशगुणादर्शनादसदृशैः गुणैः युक्तं सुतं दृष्ट्वा राजा राज्यभरणश्रान्तः । परंतपः शत्रुसंहारव्यग्रः दशरथः । चिन्तां मनोरथं चक्रे ॥ ३४ ॥ तामेव चिन्तां स्पष्टयति अथेत्यादिना स्वर्गमवामुयामित्यन्तेनअथेति । अथ रामगुणदर्शनानन्तरम् । चिरजीविनः वृद्धस्य, वयोवृद्धस्येति ज्ञानवृद्धव्यावृत्तिः । वृद्धत्वात् प्रीतिरित्युच्यते । एवम्-एवंप्रकारेणेत्यर्थः । मयि जीवति रामः कथं राजा स्यादित्येषा प्रीतिर्बभूव । अत्र कथमित्युक्ति कैकेयीवरदानकृतविनशङ्काप्रतिसन्धानेन ॥३५॥ प्रीतेरौत्कव्यमाह-एपेति । अत्रान्ते इतिकरणं द्रष्टव्यम् । द्रक्ष्यामि इत्येषा परा निरतिशया प्रीतिः। अस्य दशरथस्थ । हृदि संपरिवर्तते सम्यक् अविच्छिन्नमनुवर्तते ॥३६॥॥८॥ हयोमेदिन्या हर्षहेतुत्वादिति ज्ञेयम् ॥ ३३ ॥ ३४ ॥ चिन्ताप्रकारमाह-अथेत्यादि स्वर्गमवाप्नुयामित्यन्तेन । मयि जीवति सत्येव श्रीरामः कथम् केनोपायेन राजा स्थादित्येषा प्रीतिः चिन्ता । प्रीयते अनया चिन्तयेति व्युत्पत्त्या प्रीतिशब्दस्य चिन्तापरत्वम्, राज्ञो बभूवेत्यन्वयः ॥३५॥ एषेति । द्रक्ष्यामीत्यत्रेतिकरणं द्रष्टव्यम् ।।
For Private And Personal Use Only