________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
न प्रहर्तुमिच्छति किंतु स्वयमेव यत्र शत्रवस्तत्र गच्छति, तत्रापि न दुर्गप्रदेशावलम्बनेन याति किन्त्वभियाता अभिमुखं याता । प्रदर्ता च अभि गम्य न यांधेोधयति किन्तु स्वयमेव नासीरे स्थित्वा प्रथमं प्रहरति । सेनानयविशारदः स्वयं प्रहरन्नपि न स्वसेना छेदयति किन्तु परदुरवगाह चक्रव्यूहादिविभागेन सेनाप्रापणसमर्थः। अप्रधृष्यश्च प्रधर्षयितुमशक्यः, सर्वथा विजयीत्यर्थः । संग्रामे प्रणत्या तु जेतुं शक्य इत्यर्थः। न केवलं मनुष्यैः, सुरासुरैः परस्परविरोधं विहाय मिलितैरपि न चोपशान्तैः कुद्धैः क्रोधपरवशैः ॥२९॥ एवं कल्याणगुणपरिपूर्णत्वमुक्तम् । अथ हेयप्रत्यनीकत्व
अनसूयो जितक्रोधो न दृप्तो न च मत्सरी । न चावमन्ता भूतानां न च कालवशानुगः ॥ ३०॥ एवं श्रेष्ठगुणैर्युक्तः प्रजानां पार्थिवात्मजः । सम्मतस्त्रिषु लोकेषु वसुधायाः क्षमागुणैः। बुद्धया बृहस्पतेस्तुल्यो वीर्येणापि शचीपतेः ॥ ३१ ॥ तथा सर्वप्रजाकान्तैः प्रीतिसञ्जननैः पितुः। गुणैर्विरुरुचे रामो दीप्तः सूय इवांशुभिः ॥ ३२ ॥ तमेवं
व्रतसम्पन्नमप्रधृष्यपराक्रमम् । लोकपालोपमं नाथमकामयत मेदिनी ॥ ३३ ॥ माइ-अनसूय इति । अनसूयः असूयारहितः । जितक्रोधः क्रोधपारवश्यरहितः। न दृप्तः न गर्विष्ठः । न च मत्सरी परसम्पद्विषये द्वेषरहितः “मत्सरो। न्यशुभषे" इत्यमरः । नच कालवशानुगः सत्त्वरजस्तम प्रधानकालानुगुणसत्त्वरजस्तमोगुणो न भवति, केवलसत्त्वमतिरित्यर्थः ॥ ३०॥ उक्तगुणोपसंहारपूर्वकं गुणान्तराण्याह-एवमिति । एवम् उक्तप्रकारेण । पार्थिवात्मजः रामः । प्रजानां मध्ये श्रेष्ठैलोकोत्तरैर्गुणेर्युक्तः । त्रिषु लोकेषु सम्मतः पूजितः। क्षमागुणेः क्षमारूपगुणैः । बहुवचनं प्रकारभेदाभिप्रायेण । वसुधायाः भूमेस्तुल्य इति वक्ष्यमाणमनुषज्यते ॥ ३१॥ उपसंहरतितथेति । तथा पूर्वोक्तरीत्या । सर्वप्रजाकान्तैः स्त्रीबालयुववृद्धानां प्रियः । पितुःप्रीतिसञननैः, दृष्टान्तार्थमिदम् । पितुरिख सर्वेषां प्रियरित्यर्थः। एवंभूते गुणैः रामः स्वतः सुन्दरः स्वतो दीप्तः सूर्योर्डशुभिरिख विरुरुचे बभौ ॥३२॥ एवं रामगुणान् प्रदर्य तत्कृतं भूम्युपलक्षितसकललोकप्रावण्यं अनसूय इति । परकृतासूयारहितः, न च मत्सरी परसम्पद्विषये द्वेषरहितः । न चावमन्ता भूतानां प्राणिनामवमानकर्ता न भवति । न च कालवशानुगः कालवशः कालपारतन्त्र्यम्, तदनुसारी न भवतीत्यर्थः । “दशवर्षसहस्राणि दशवर्षशतानिच । वत्स्यामि मानुषे लोके पालयन् पृथिवीमिमाम् ॥” इति भगवतैव काल नियमस्याक्तत्वात ॥ ३० ॥ वसुधायाः क्षमागुणः क्षान्तिप्रधानेगुणेरिति मध्यमपदलोपी समासः। वसुधायास्तुल्य इति परेण सम्बधः । बुद्धचा बृहस्पतेस्तुल्यो वीर्येणापि शचीपतेरिति ॥ २१ ॥ ३२ ॥ तमेवमिति । मेदिनीशब्देन मेदिनीस्थजना लक्ष्यन्ते । यद्वा मेदिनी तदधिष्ठानदेवता, अकामयत सुजनदुर्जनानुग्रहनिन
For Private And Personal Use Only