________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kalassagarsuri Gyarmandir
अथ रामस्य राजत्ववांग्यतानुसन्धानं दशरथस्य दर्शयति श्लोकत्रयेण-वृद्धिकाम इति । वृद्धिकाम इत्यनेनापूर्वेश्वंयप्रदत्वमुक्तम् । सर्वभूतान्यनुकम्प यतीति सर्वभूतानुकम्पनः । कर्तरि ल्युट । अनेन भ्रष्टैश्वर्यसाधकत्वमुक्तम् । ममात्मज इति शेपः । दाने सन्तापहारित्वे च दृष्टान्तमाह वृष्टिमान् । पर्जन्य इवेति । लोके विपये मत्तः प्रियतरः अतिशयेन प्रीतिमान् । प्राणातीति प्रियः। पचायच ॥ ३७ ॥ पूर्व प्रियतरत्वमुक्तम्, अत्र तद्धतुगुण
वृद्धिकामो हि लोकस्य सर्वभूतानुकम्पनः । मत्तः प्रियतरो लोके पर्जन्य इव वृष्टिमान् ॥ ३७॥ यमशक्रसमो वीयें बृहस्पतिसमो मतौ। महीधरसमो धृत्यां मत्तश्च गुणवत्तरः ॥ ३८ ॥ महीमहमिमां कृत्स्नामधितिष्टन्त मात्मजम्। अनेन वयसा दृष्ट्वा यथास्वर्गमवाप्नुयाम् ॥ ३९ ॥ इत्येतैर्विविधैस्तैस्तैरन्यपार्थिवदुर्लभैः । शिष्टैरपरि मेयैश्च लोके लोकोत्तरैर्गुणैः ॥४०॥तं समीक्ष्य महाराजो युक्तं समुदितैः शुभैः । निश्चित्य सचिवैः सार्द्ध युवराज
ममन्यत ॥४१॥ दिव्यन्तरिक्षे भूमौ च घोरमुत्पातजं भयम् । सञ्चचक्षे च मेधावी शरीरे चात्मनो जराम् ॥४२॥ वत्तरत्वमुच्यते-यमशकसम इति । प्रत्येकं साम्यानहत्वाद्यमशक्रेत्युक्तम् ॥ ३८॥ महीमिति । यथास्वर्ग स्वसदृशं स्वसुकृतानुरूपं स्वर्गमित्यर्थः ।।
यदा यथास्वर्ग यथाभूतस्वर्ग 'यस्त्वया सह स स्वर्गः' इत्युक्तरामसौन्दर्यानुभवस्वर्गमित्यर्थः ॥ ३९॥ इतीति श्लोकद्वयमेकान्वयम् । इति पूर्वोक्त । पारीत्या । विविधस्तेस्तेस्तत्तत्कार्यभेदन प्रसिद्धः । अन्यपार्थिवदुर्लभेः सामान्यराजदुर्लभैः । शिष्टेः उक्तव्यतिरिक्तसोशील्यादिभिः अपरिमेयः
असङ्ख्ययः । कतिपयगुणाः प्रदर्शिताः शिष्टास्त्वपरिमेया इति भावः । लोके लोकोत्तरेलोक कुत्राप्येवं लोकोत्तरगुणा न सन्तीत्यर्थः । समुदितः। स्वाभाविकैः शुभैः कल्याणतमैगुणयुक्तं तं रामं समीक्ष्य महाराजो दशरथः। सचिवैः सार्द्ध निश्चित्य युवराजममन्यत, अयं युवराजो भवेदिति निश्चितवानित्यर्थः ॥ ४० ॥४१॥ अथ सद्यो रामाभिषेककर्त्तव्यताहेतुं स्वविपत्तिसूचकं दुनिमित्तमात्मनो जरां चालोचितवानित्याह-दिवीति । प्रीतिः चिन्ता । अस्य दशरथस्य हृदि संपरिवर्तत इत्यन्वयः ॥ ३६-३८ ॥ महीमिति । अनेन वयसा कृत्स्ना महीं अधिष्ठितमात्मजं दृष्ट्वा यथा स्वर्गमानुयामिति प्रीतिः हृदि संपरिवर्तत इति पूर्वेण सम्बन्धः ॥ ३९ ॥ ४० ॥ इतीत्यादि । लोकोत्तरैर्गुणरित्यस्य युक्तमिति पूर्वेण सम्बन्धः । उक्तव्यतिरिक्तसोशील्यादिभिः समु। पादितैर्मिलितैः ॥४१॥ दिवीति । उत्पातजम-आत्मानिष्टसूचकोत्पातसचितम् । दिव्योत्पातः दक्षत्रादिवकृतम् । अन्तरिक्षोत्पातः-महावातपरिवेषसन्ध्यादिग्ध
For Private And Personal Use Only