SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandin विर्तितव्यं तथा मात्रा पित्रा च विविधाश्रयं विविधप्रकारमनुशिष्टास्मि । सम्प्रतीदानीं न वक्तव्यास्मि न शिक्षणीयास्मीति यावत् ॥ ९ ॥ रामानु० - अनुशिष्टेति । मात्रा पित्रा च विविधाश्रयं विविधैर्वणैराश्रमिभिश्वाश्रीयत इति विविधाश्रयम्, श्रेयःसाधनत्वेन सर्वैरनुष्ठेषमाचारमिति यावत् । अनुशिष्टास्मि सुशिक्षितास्मि तस्माद्यथा मया वर्तितव्यम् आचरितव्यं तथा सम्प्रति न वक्तव्यास्मि, पूर्वमेव सर्वं विदितवत्यस्मीत्यर्थः ॥ १९ ॥ उपदेशफलमाह - अहमित्यादि । दुर्गत्वादिविशेषणविशिष्टमपीत्यर्थः ॥ १० ॥ अहं दुर्गं गमिष्यामि वनं पुरुषवर्जितम् । नानामृगगणाकीर्ण शार्दूलवृकसेवितम् ॥ १० ॥ सुखं वने निवत्स्यामि यथैव भवने पितुः । अचिन्तयन्ती त्रीन् लोकान् चिन्तयन्ती पतिव्रतम् ॥ ११ ॥ शुश्रूषमाणा ते नित्यं नियता ब्रह्मचारिणी । सह रंस्ये त्वया वीर वनेषु मधुगन्धिषु ॥ १२ ॥ त्वं हि कर्तुं वने शक्तो राम सम्परिपालनम् । अन्य स्यापि जनस्येह किंपुनर्मम मानद ॥ १३ ॥ सह त्वया गमिष्यामि वनमद्य न संशयः । नाहं शक्या महाभाग निवर्त्तयितुमुद्यता ॥ १४॥ फलमूलाशना नित्यं भविष्यामि न संशयः । न ते दुःखं करिष्यामि निवसन्ती सह त्वयां ॥ १५ ॥ इच्छामि सरितः शैलान पल्वलानि वनानि च । द्रष्टुं सर्वत्र निर्भीता त्वया नाथेन धीमता ॥ १६ ॥ | दुःखावद्देयं प्रवृत्तिरित्यत्राह - सुखमिति । त्रीन् लोकान् अचिन्तयन्ती त्रैलोक्यैश्वर्यमप्यगणयन्तीत्यर्थः । पतित्रतं पतिविषयं व्रतम्, पतिशुश्रूषण मित्यर्थः ॥ ११ ॥ शुश्रूषमाणेति । नियता नियमयुक्ता । ब्रह्मचारिणी नियतेन्द्रियेत्यर्थः । कामभोगवर्जिता वा । रंस्ये अपूर्वदर्शनेन सन्तुष्टा भवि ष्यामीत्यर्थः । मधुगन्धिषु पुष्परसगन्धिषु । “मद्ये पुष्परसे मधु " इति वैजयन्ती ॥ १२ ॥ १३ ॥ सहेति । उद्यता वनगमनोद्युक्ता ॥ १४ ॥ फलमूलाशनेति । दुःखम् अशनपानाभ्यर्थनरूपम् ।। १५ ।। १६ ।। अतः सम्मति न वक्तव्या नोपदेष्टव्यास्मि ॥ ९ ॥ १० ॥ सुखमिति । लोकानचिन्तयन्ती त्रैलोक्यैश्वर्यमपि न गणयन्ती । पतिव्रतं पातिव्रत्यम् चिन्तयन्ती अपेक्ष | माणा ॥ ११ ॥ शुश्रूषमाणेति । ब्रह्मचारिणी तपश्चरणशीला, नियता नियमयुक्ता, मधुगन्धिषु मकरन्दसुरभिषु ॥ १२ ॥ त्वं हीति । अन्यस्थापि त्वदेकशरण जनान्तरस्यापि ॥ १३ ॥ सहेति । निवर्तयितुं न शक्येति न्यायप्राप्तानुगमनत्वादित्याशयः ॥ १४ ॥ नते दुःखमिति । अन्नपानादिविशेषसम्पादनायेति सत्य०-हे राम ! त्वमन्यस्यापि परिपालने कर्त्तुं बने शक्तः । हे मानद राम ! सम परिपालने शक इति किमु वक्तव्यम् । अतोऽत्रैव वस्तव्यमिति मा नद ब्रूहि इत्यावृत्तेनान्वयः ॥ १३ ॥ १ त्वया । अग्रतस्तं गमिष्यामि भोक्ष्ये भुक्तवति त्वयि । इत्याधकः पाठः । For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy