________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kalassagarsun Gyarmandie
सामनुसृतायाः प्रणयधारायाः पन्थानं नारोहतीति भावः ॥२॥ कथं मम वाक्यस्य परिहासास्पदत्वमित्यत्राइ-आर्यपुत्रेति । भर्तारंप्रति भार्यायाः
सम्बोधनमार्यपुत्रेति । भर्तृसम्बन्धिपित्रादयः। स्वानि पुण्यानि स्वकृतपुण्यफलानि । एतत् पापफलस्याप्युपलक्षणम् । भुनानाः अनुभवन्तः । स्वस्वं स्वस्यैव फलपदं भाग्यं शुभाशुभं कर्म । उपासते आचरन्ति । "भाग्यं कर्म शुभाशुभम् " इत्यमरः ॥ ३॥ पूर्वोक्ताः सर्वे स्वकीयकर्म
आर्यपुत्र पिता माता भ्राता पुत्रस्तथा स्नुषा। स्वानि पुण्यानि भुआनाः स्वस्वं भाग्यमुपासते ॥ ३॥ भर्तुर्भाग्य तु भार्येका प्राप्नोति पुरुषर्षभ । अतश्चैवाहमादिष्टा वने वस्तव्यमित्यपि ॥४॥ न पिता नात्मजो राम न माता न सखीजनः । इह प्रेत्य च नारीणां पतिरेको गतिः सदा ॥५॥ यदि त्वं प्रस्थितो दुर्ग वनमद्यैव राघव । अग्रतस्ते गमिष्यामि मृदन्ती कुशकण्टकान् ॥ ६॥ ईर्ष्यारोषौ बहिष्कृत्य भुक्तशेषमिवोदकम् । नय मां वीर विस्रब्धः पापं मयि न विद्यते॥७॥ फलान्यनुभवन्ति । भर्तुरर्द्धशरीरभूता भार्या भर्तृकृतभाग्यफलमेवानुभवतीत्याह-भर्तुरिति । भार्यका भायैव तु भर्तुर्भाग्यं प्रामोति, सहाधिकृत त्वात् । यस्मादेवं तस्मादेवाइमपि पने वस्तव्यमित्यादिष्टेव त्वदादेवभिः । आवयोः सहधर्मचारित्वात्त्वदादेशेनेव ममाप्यादेशः सिद्ध इति | भावः॥१॥ एवं भर्तृसमानभाग्यत्वं स्वगमनहेतुरुक्तः, तदेकगतिकत्वमपि गमनहेतुरित्याह-नेति । प्रेत्य परलोक इत्यर्थः ॥५॥ फलि तार्थमाइ-यदीति । अग्रतो गमने हेतुमाह मृदन्ती मर्दयन्ती, मृदूकुर्वन्तीत्यर्थः। कुशरूपकण्टकान् ॥ ६॥ ईष्यति । परातिशयाक्षमा ईर्ष्या, त्वदनु । आर्यपुत्रेति । पित्रादयः स्वानि पुण्यानि कर्मफलानि भुञ्जानाः भोक्तुं प्रवृत्ताः, स्वं स्वं भाग्यं स्वानुष्ठितं कर्मैव, उपासते उपजीवन्ति न तु पित्राद्यनुष्ठितम्, तत्र तेषां सहाधिकाराभावात् । मर्तुरर्धशरीरभूता भार्या तु कर्मफलभोगे प्रवृत्ता भर्जनुष्ठितं कमैव उपजीवति । तयोः सहाधिकारादित्यर्थः। अतश्चेति। अतःकारणादेव। अहमपि वने वस्तव्यमित्यादिष्टैच, तव वनगमनादेशादेव “ अधों वा एष आत्मनो यत्पत्नी" इत्युक्तप्रक्रियया त्वदर्धशरीरभूताया ममाप्यादेश इत्यर्थः ॥४॥ यदेवमतः इह लोके च नारीणां न पित्रादितिः, पतिरेक एव सदा गतिः अतः, मृगन्ती मर्दयन्ती ॥ ५ ॥ ६ ॥ ईयति । मया निवर्तिता स्वयं खीच सती
स०-इह लोके नारीणां न विद्यन्ते अरयो येषां ते नारयस्तेषां साधूनां वं न केवलं पिता अपि तु आत्मजः । न केवलमात्मजः किन्तु आत्मा स्वामी चेत्यन्वयः । यथोक्तं " माता रामः " इत्यादि ॥१॥ " पीतशेषं न च पिवेत " इत्यादेर्यथा पीतोरिठष्ट जलादि बहिकार्य तपेयापरीषी बहिष्कृत्य मां नयेत्यर्थः । यतु भुक्तमोगया त्वया कि प्रयोजनमित्परतार्य यथा दुष्पापपानीयकान्तास्याविना पीतशेधं कम
For Private And Personal Use Only