________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
टी.अ.का.
वा.रा.भू. ॥१०॥
अहमिति । व्यलीकम् अप्रियम् । कस्यचिदपि जनस्य यथा व्यलीकं न कुरुषे तथा त्वया वर्तितव्यम्, इदं मम वचश्व कार्यम् । अत्रैव स्थातव्यमिति मम वचश्च कार्यमिति । यद्वा यथा कस्यचिदपि व्यलीकं न कुरुषे तथा इदमपि मम वचस्त्वया कार्यमित्यर्थः ॥ ३८॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने षडविंशः सर्गः ॥ २६ ॥ एवं रामायणपुरुषेषु रामकर्तव्यं सामान्यधर्मानुष्ठानं दर्शितम् ।।
अहं गमिष्यामि महावनं प्रिये त्वया हि वस्तव्यमिहेव भामिनि । यथा व्यलीकं कुरुषे नकस्यचित्तथा त्वया कार्य मिदं वचो मम ॥ ३८ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे षडविंशः सर्गः ॥२६॥ एवमुक्ता तु वैदेही प्रियाय प्रियवादिनी । प्रणयादेव संक्रुद्धा भर्तारमिदमब्रवीत् ॥ १॥ किमिदं भाषसे राम वाक्यं
लघुतया ध्रुवम् । त्वया यदपहास्यं मे श्रुत्वा नरवरात्मज ॥२॥ अथ सीतानुष्ठेयं पातिव्रत्यधर्म संक्षेपेणोपक्षिपति-एवमुक्तेत्यादि । अप्रियवादिन्यपि प्रियार्दा प्रियभाषणार्दा । तदुपरि प्रियवादिनी । तथाप्येवमुक्ता अप्रियमुक्ता । प्रणयादेव सौहृदादेव, न तु वैरात संक्रुद्धा ॥ १॥ किमिति । हे राम ! त्वया लघुतया ध्रुवं निश्चितम् । अत्यन्तनिस्सारमित्यर्थः। "ध्रुवो भभेदे कीबन्तु निश्चिते शाश्वते त्रिषु" इत्यमरः । लघुत्वमेवाह यदिति। यद्वाक्यं श्रुत्वा मे स्त्रिया अपि अपहास्यं भवति तद्वाक्यं भाषसे किमिदम् अयमपूर्वप्रकारः इतःपूर्व न दृष्टचरः। नवरात्मजेत्यनेनास्यासम्भावितमुच्यते । त्वामिह स्थाप्य वनं गमिष्यामीत्येतद्वचनमेतावत्पर्यन्त । अहमिति । कस्य चियलीकम् अप्रियं यथा न कुरुषे न करिष्यसि । त्वया तथा कार्यम् आचरितव्यम् इदं मम वचः आज्ञापितमेतत् सर्वदा हदि स्थाप्यमिति भावः ॥३८॥ इति श्रीमहेश्वरतीर्थविरचितायो श्रीरामायणतत्त्वदीपिकाख्यायो अयोध्याकाण्डव्याख्यायो पाईशःसर्गः॥२६॥ एवं रामेण गृहनिवासमुक्ते वनवास एव मम च धर्मतो न्यायप्राप्त इति सीताह-एवमिति । प्रणयादेव स्नेहबलादेव, संकुद्धा मत्पृथस्थितिमादिशतीत्यमर्षात् ॥ १ ॥ स एवामर्षः प्रदर्श्यते-किमिदामिति । इदं किं भाषसे कुतः लघुतया ध्रुवं लघुत्वेन निश्चितम्, अतितुच्छमिति यावत् । त्वया यद्भाषितं तच्छुत्वा मे अपहास्यं परिहासास्पदं जायते ॥२॥ सत्य-हे राम ! इदं किं मापसे । तन्मयि लघुतया लाघवनिमित्तेन न त्वद्गौरवण | ध्रुवं निश्रयः । कुतः ! हे नरोत्तम ! यहाक्यं त्वयैव श्रुत्वाऽपहास्यं किमन्यै रित्यन्वयः ॥ २ ॥
१ नरवरात्मज । वीराणां राजपुत्राणां शस्त्रास्त्रविदुषां नृप । अनई मयशस्वं च न ओतव्य त्वयोरतम्।। इत्यधिकः पाठः ।
॥१०४॥
For Private And Personal Use Only