________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyarmandie
काल्यमिति । काल्यम् अहर्मुखे । “प्रत्यूषोऽहर्मुखं काल्यम्" इत्यमरः ॥३०॥ मातेति । धर्ममेवाग्रतः कृत्वा, स्थिताया इति शेषः ॥३१॥ वन्दि तव्या इति । स्नेहः प्रीतिः। प्रणयः सौहृदम् । “प्रणयः स्यात्परिचये याच्नायां सौहृदेपि च" इति वैजयन्ती । भोगः पालनम् । “भोगो राज्ये धने । सौख्ये पालनाभ्यवहारयोः” इति वैजयन्ती। मयि नेहादित्रयमविशेषेण कुर्वन्ति, अतस्तास्तुल्यतया वन्द्या इति भावः ॥ ३२॥ भ्रातृपुत्रसमाविति ।
काल्यमुत्थाय देवानां कृत्वा पूजां यथाविधि । वन्दितव्यो दशरथः पिता मम नरेश्वरः ॥३०॥ माता च मम कौसल्या वृद्धा सन्तापकर्शिता । धर्ममेवाग्रतः कृत्वा त्वत्तः सम्मानमर्हति ॥३१॥ वन्दितव्याश्च ते नित्यं याः शेषा मम मातरः। स्नेहप्रणयसम्भोगैः समा हिमम मातरः ॥ ३२ ॥ भ्रातृपुत्रसमौ चापि द्रष्टव्यौ च विशे षतः । त्वया भरतशत्रुघ्नौ प्राणैः प्रियतरौ मम ॥३३॥ विप्रियं न च कर्त्तव्यं भरतस्य कदाचन । स हि राजा प्रभुश्चैव देशस्य च कुलस्य च ॥ ३४॥आराधिता हि शीलेन प्रयत्नैश्चोपसेविताः ।राजानः सम्प्रसीदन्ति प्रकु प्यन्ति विपर्यये ॥ ३५॥ औरसानपि पुत्रान् हि त्यजन्त्यहितकारिणः। समर्थान् सम्प्रगृह्णन्ति जनानपि नरा धिपाः ॥ ३६॥ सा त्वं वसेह कल्याणि राज्ञः समनुवर्तिनी।भरतस्य रता धर्मे सत्यव्रतपरायणा ॥ ३७॥ भ्रातृपुत्रसमो भ्रात्रा पुत्रेण च समौ । प्राणैःप्राणेभ्यः ॥ ३३ ॥ विप्रियमिति । राजत्वेप्यप्रभुत्वमनियन्तृत्वं कस्यचित्सम्भवतीति तब्यावृत्त्यर्थ प्रभुरित्यु तम् । देशपतेरकुलपतित्वदर्शनादाह देशस्य च कुलस्य चति ॥३४॥ आराधिता इति । शीलेन अकुटिलवृत्त्या । प्रयत्नैः आलस्यत्यागादिभिः। विप यये शीलाद्यभावे ॥३५॥ औरसानिति । जनान् अबन्धून् ॥ ३६॥ सा त्वमिति । सत्यव्रतम् अमोघव्रतम् ॥३७॥ काल्यमिति । काल्यं सर्वस्मिन्नप्युषसि ॥ ३० ॥ ३१ ॥ वन्दितव्या इति । स्नेहप्रणयसम्भोगैः-प्रणयः अनुनयः सेवा, सम्भोगः अन्नपानादिविशेषप्रदानम् तेः। समाः मे मात्रेति शेषः ॥ ३२ ॥ भ्रातपुत्रसमो भ्राता पुत्रेण च समो, प्राणः प्राणेभ्यः प्रियतरौ॥ ३३-३५ ।। औरसानिति । जनान् बन्धुत्वरहितानपि ॥ ३६-३७ ।। वि०-माता चेति । बन्दिराव्येति शेषः । यतो गुरुजनबन्दनं कुलपूना धर्म एपंति पुरस्कल्प स्वत्तः संमानमर्हतीति सम्बन्धः ।। ३१ ।। सत्य-मात्रेति शेषः । वाक्यभेदान पुनरुक्तिः ।। ३२ ॥
१ विपर्यये । शनिष गजो हन्ति जिप्रभित्र भुजङ्गमः । स्मयन्निव नृपो हन्ति मानयन्निव दुर्जनः ।। इत्यधिः ।
For Private And Personal Use Only