________________
Shri Mahavir Jain Aradhana Kendra
वा.रा.भू.
॥१०३॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तयति । अद्य नृपोद्यते ममाभिषेके सज्जे सति । प्रचोदितः पूर्वदत्तं वरद्वयम् देहीति प्रकर्षेण प्रेरितः, स समयः त्वदपेक्षितं करिष्यामीति कृतशपथ इत्यर्थः । " समयाः शपथाचारकालसिद्धान्तसंविदः " इत्यमरः । धर्मेण प्रतिनिर्जितः, कर्त्तृभूतधर्मेण स्वायत्तीकृत इत्यर्थः ॥ २२ ॥ ततः किमि त्यत्राह - चतुर्दशेति । मया पितृचोदितेनेत्यर्थः ॥ २३ ॥ सीताहृदयं ज्ञातुं बुद्ध्युपदेशव्यपदेशेन प्रणयरोषमुत्पादयन्नाह - भरतस्येति । त्वया न तयाऽद्य मम सज्जेऽस्मिन्नभिषेके नृपोद्यते । प्रचोदितः स समयो धर्मेण प्रतिनिर्जितः ॥ २२ ॥ चतुर्दश हि वर्षाणि वस्तव्यं दण्डके मया । पित्रा मे भरतश्चापि यौवराज्ये नियोजितः । सोऽहं त्वामागतो द्रष्टुं प्रस्थितो विजनं वनम् ॥ २३ ॥ भरतस्य समीपे तु नाहं कथ्यः कदाचन ॥ २४ ॥ ऋद्धियुक्ता हि पुरुषा न सहन्ते परस्तवम् । तस्मान्न ते गुणाः कथ्या भरतस्याग्रतो मम ॥ २५ ॥ नापि त्वं तेन भर्तव्या विशेषेण कदाचन । अनुकूलतया शक्यं समीपे त्वस्य वर्तितुम् ॥ २६ ॥ तस्मै दत्तं नृपतिना यौवराज्यं सनातनम् । स प्रसाद्यस्त्वया सीते नृपतिश्च विशे पत्ः ॥ २७ ॥ अहं चापि प्रतिज्ञां तां गुरोः समनुपालयन् । वनमद्यैव यास्यामि स्थिरा भव मनस्विनी ॥ २८ ॥ याते च मयि कल्याणि वनं मुनिनिषेवितम् । त्रतोपवासपरया भवितव्यं त्वयाऽनघे ॥ २९॥ कथ्यः न श्लाघनीयः । त्वत्प्रणामागमनदशायामिति शेषः ॥ २४ ॥ २५ ॥ नेति । तेन भरतेन । विशेषेण न भर्तव्या बन्धुसाधारण्येन भरणीयेत्यर्थः । अशनादिभरणं लक्ष्मणशत्रुघ्नभार्याभ्यां विशेषेण न काङ्क्षणीयमितिभावः । अनुकूलतया स्वजनसाधारणतया । शक्यं योग्यम् ॥ २६ ॥ तदनु कूलाचरणं किमर्थमित्यत आह-तस्मा इति । नृपतिना दशरथेन ॥ २७ ॥ अहमिति । गुरोः दशरथस्य । स्थिरा भव मयि स्थिरानुरागा भवेत्यर्थः । तत्र हेतुः मनस्विनीति । दृढमनस्केत्यर्थः ॥ २८ ॥ २९ ॥
तयेति । नृपोद्यते नृपेणोद्युक्ते अभिषेके सज्जे सति । तया अद्य न समयः प्राचीनो बरसङ्केतः प्रचोदितः प्रवर्तितः । तेन कारणेन धर्मेण धर्ममार्गेणैव प्रतिनिर्जितः स्ववशीकृतः ॥ २२ ॥ अस्तु, प्रकृते किमायातम् ? तत्राह चतुर्दशेत्यादि ॥ २३ ॥ अथ सीतायाः गृहावस्थापनाय वक्तव्यबुद्धिमुपदिशति - भरतस्येति । त्वया न कथ्यः न श्लाघनीयः ॥ २४ ॥ २५ ॥ नापीति । तेन विशेषेण न भर्तव्या किन्तु बन्धुसाधारण्येन भरणीयेत्यर्थः । अनुकूलतया वर्तितुं शक्यम् न तु प्रातिकूल्येन ॥ २६ ॥ तदनुकूलाचरणं किमर्थमत आह-तस्मा इति । नृपतिना दशरथेन ॥ २७-२९ ॥
For Private And Personal Use Only
टी.अ.कां. स०२६
॥१०३॥