________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsur Gyanmandir
मधु । मूर्ध्नि न दधति स्म नाभिषिञ्चन्ति स्मेत्यर्थः ॥ १३॥ नेति । प्रकृतयः अमात्यादयः। श्रेणीमुख्याः वीथीप्रधानाः॥१४॥ चतुर्भिरिति । पुष्यरथः उत्सवाय कल्पितो रथ इत्यर्थः । “असौ पुष्यरथश्चक्रयानं न समराय यत्" इत्यमरः । स हि राज्ञामग्रतो नीयते केवलं सम्भ्रमाय ॥१५॥ नति । कृष्णमेघगिरिप्रभः कृष्णमेषयुक्तगिरिप्रभः । उभयोरुपमानत्वे वैषम्यापत्तिः ॥१६॥ न च काश्चनचित्रमिति । वीरपुरस्कृतं भद्रासनं
न त्वां प्रकृतयः सर्वाः श्रेणीमुख्याश्च भूषिताः । अनुव्रजितुमिच्छन्ति पौरजानपदास्तथा ॥ १४॥ चतुर्मिर्वेग सम्पन्नैर्हयैः काञ्चनभूषितैः । मुख्यः पुष्यरथो युक्तः किं न गच्छति तेऽग्रतः॥१५॥ न हस्ती चाग्रतः श्रीमांस्तव लक्षणपूजितः। प्रयाणे लक्ष्यते वीर कृष्णमेघगिरिप्रभः ॥१६॥ न च काञ्चनचित्रं ते पश्यामि प्रियदर्शन । भद्रा सनं पुरस्कृत्य यातं वीरपुरस्कृतम् ॥ १७॥ अभिषेको यथा सजः किमिदानीमिदं तव । अपूर्वो मुखवर्णश्च न प्रहर्षश्च लक्ष्यते ॥ १८॥ इतीव विलपन्तीं तां प्रोवाच रघुनन्दनः। सीते तत्रभवांस्तातः प्रवाजयति मां वनम् ॥ १९ ॥ कुले महति सम्भूते धर्मज्ञे धर्मचारिणि । शृणु जानकि येनेदं क्रमेणाभ्यागतं मम॥२०॥ राज्ञा सत्य
प्रतिज्ञेन पित्रा दशरथेन च । कैकेय्यै मम मात्रे तु पुरा दत्तौ महावरौ ॥२१॥ पुरस्कृत्य ते यातं गमनं न पश्यामीत्यन्वयः ॥ १७॥ अभिषेक इति । यथा अभिषेकः सज्जः सन्नद्धः । इदानी तथैवेत्यर्थः। तवापूर्वो मुखव! | दृश्यते, महर्षश्च न लक्ष्यते किमिदमिति सम्बन्धः ॥ १८॥ इतीति । विलपन्ती विविध उपन्तीम् । तत्रभवान् पूज्यः। “तत्रभवानत्रभवानितिशब्दो व प्रयुज्यते पूज्ये “इतिहलायुधः । प्रवाजयतीत्यनन्तरमितीति शेषः ॥ १९॥ महतोऽप्रियस्य श्रवणे सीतायाः किं भविष्यतीति भयात् चित्त दाढाथै विविधगुणकीर्तनेन सम्बोधयति-कुल इत्यादि । इदं प्रव्राजनम् । येन क्रमेण येन मार्गेण ॥ २० ॥२१॥ नेति । प्रकृतयः अमात्यादयः । श्रेणीमुख्याः परिषन्मुख्याः ॥ १४॥ चतुर्मिरिति । पुष्यरथः उत्सवाय कल्पितो रयः न तु समराय, तादृप्रथः निर्जिगमिषो राज्ञोऽने भवति तस्मिनिच्छायां सत्यामारोहति नोचेत्केवलमने गच्छति ॥ १५॥ नोति । तथा हस्ती च कृष्णमेघप्रभो गिरिप्रभश्च ॥ १६ ॥ न चेति । भद्रासन पुरस्कृत्य ते यातं तवागमनं पश्यामीत्यन्वयः ॥ १७ ॥ अभिषेक इति । यथा यस्मात्सजः सन्नद्धः, प्रवृत्त इति यावत् । एवमपि अपूर्वो मुखवर्णश्च लक्ष्यते प्रहृष्टो न लक्ष्यते, इदं किमित्यन्वयः ॥ १८ ॥ इतीति । विलपन्तीमुद्वेगेन पृच्छन्तीम् । तत्रभवान् पूज्यः ॥ १९॥ महतः अप्रियस्य श्रवणे सीतायाः दुःखं भविष्यतीति | भयाञ्चित्तदाार्थ विविधगुणकीर्तनेन सम्बोधयति कुल इति । येन क्रमेण येन हेतुना । इदं प्रव्राजनम् ॥२०॥२१॥
For Private And Personal Use Only