________________
Shri Mahavir Jain Aradhana Kendra
चा.रा.भू.
॥१०२॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पश्यामि द्रक्ष्यामि ॥ ४१ ॥ प्रणष्टेति । प्रणष्टदुःखसङ्कल्पा सङ्कल्पः मानसं कर्म, वने रामस्य किम्भविष्यतीति चिन्तात्मक इत्यर्थः ॥ ४२ ॥ | ॥ ४३ ॥ मङ्गलैरिति । वध्वाः स्रुषायाः सीतायाः । कामान् काम्यमानवस्त्राभरणादीनि ॥ ४४ ॥ ४५ ॥ तदा कौसल्योक्तस्य वाचामगोचरत्वादाहप्रणष्टदुःखसङ्कल्पा हर्षविद्योतितानना। द्रक्ष्यामि त्वां वनात् प्राप्तं पूर्णचन्द्रमिवोदितम् ॥ ४२ ॥ भद्रासनगतं राम वनवासादिहागतम् । द्रक्ष्यामि च पुनस्त्वां तु तीर्णवन्तं पितुर्वचः ॥ ४३ ॥ मङ्गलैरुपसम्पन्नो वनवासादिहागतः । वध्वा मम च नित्यं त्वं कामान् संवर्द्ध याहि भो ॥ ४४ ॥ मयार्चिता देवगणाः शिवादयो महर्षयो भूतमहासुरो रगाः । अभिप्रयातस्य वनं चिराय ते हितानि कांक्षन्तु दिशश्च राघव ॥ ४५ ॥ इतीव चाश्रुप्रतिपूर्णलोचना समाप्य च स्वस्त्ययनं यथाविधि । प्रदक्षिणं चैव चकार राघवं पुनःपुनश्चापि निपीडय सस्वजे ॥ ४६ ॥ तथा तु देव्या स कृत प्रदक्षिणो निपीड्यमातुश्चरणौ पुनःपुनः । जगाम सीतानिलयं महायशास्स राघवः प्रज्वलितः स्वया श्रिया ॥ ४७ ॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे पञ्चविंशः सर्गः ॥ २५ ॥ अभिवाद्य च कौसल्यां रामः संप्रस्थितो वनम् । कृतस्वस्त्ययनो मात्रा धर्मिष्ठे वर्त्मनि स्थितः ॥ १ ॥ इतीवेत्यादि । इतीव एवंविधमित्यर्थः । प्रदक्षिणं अनुकूलम् । रक्षामितियावत् ॥ ४६ ॥ तथेति । निपीडय निपीडनपूर्वकमभिवाद्येत्यर्थः । स्वया स्वतस्सिद्धया ॥ ४७ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने पञ्चविंशः सर्गः ॥ २५ ॥ एवं मातरमनुमान्य सीतामनुमानयितुं निर्गच्छति - अभिवाद्येत्यादि श्लोकद्वयमेकं वाक्यम् । वनं संप्रस्थितः वनं गन्तुं प्रवृत्तः । धर्मिष्ठे अतिशयितधर्मे प्रणष्टेति । प्रणष्टदुःखसङ्कल्पा-सङ्कल्पः मानसं कर्म, वने राघवस्य किं भविष्यतीति चिन्तात्मक इत्यर्थः ॥ ४२ ॥ ४३ ॥ मङ्गलैरिति । मङ्गलैः राजोचितवस्त्रा भरणादिभिः । वध्वाः सीतायाः । संबर्द्ध संवर्धय याहि गच्छ भो इति ॥ ४४ ॥ ४५ ॥ प्रदक्षिणं चकारेति । रक्षार्थमेव पुत्रस्य प्रदक्षिणम् ॥ ४६ ॥ तथेति । देव्या ॐ कृतप्रदक्षिणः स राघवः तथा च मातुः कृतप्रदक्षिणस्सन् पुनःपुनः मातुश्चरणौ निपीड्येति सम्बन्धः । निपीड्य अभिवाद्येत्यर्थः ॥ ४७ ॥ इति श्रीमहेश्वरतीर्थ ॐ विरचितायां श्रीरामायणतत्त्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां पञ्चविंशः सर्गः ॥ २५ ॥ अभिवाद्येत्यादि श्लोकद्वयमेकं वाक्यम् । वनं संमस्थितः वनं गन्तुं
For Private And Personal Use Only
टो.अ.कां. स. २६
॥१०१॥