________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
| वृत्रनाशनिमित्ते ॥ ३२-३४ ॥ त्रीनिति । विक्रमान् पादविक्षेपान् ॥ ३५ ॥ ऋत इति । शुभमङ्गलाः मङ्गलानामपि मङ्गलाः, मङ्गलद्रव्याणामप्यति शयदायका इत्यर्थः ॥ ३६ ॥ इतीति । शेषान् अक्षतानि । गन्धैश्च समालभ्य विलिप्य । “समालम्भो विलेपनम् ” इत्यमरः । सिद्धार्थो दृष्टफलाम् । विशल्य
अमृतोत्पादने दैत्यान् घ्रतो वज्रधरस्य यत् । अदितिर्मङ्गलं प्रादात्तत्ते भवतु मङ्गलम् ॥ ३४ ॥ त्रीन् विक्रमान् प्रक मतो विष्णोरमिततेजसः । यदासीन्मङ्गलं राम तत्ते भवतु मङ्गलम् ॥३५॥ ऋतवः सागरा द्वीपा वेदा लोका दिशश्च ते । मङ्गलानि महाबाहो दिशन्तु शुभमङ्गलाः ॥ ३६ ॥ इति पुत्रस्य शेषांश्च कृत्वा शिरसि भामिनी । गन्धैश्चापि समालभ्य राममायतलोचना ॥ ३७ ॥ औषधीं चापि सिद्धार्थी विशल्यकरणीं शुभाम् । चकार रक्षां कौसल्या मन्त्रैरभिजजाप च ॥३८॥ उवाचातिप्रहृष्टेव सा दुःखवशवर्त्तिनी । वाङ्मात्रेण न भावेन वाचा संसज्जमानया ॥ ३९ ॥ आनम्य मूर्ध्नि चात्राय परिष्वज्य यशस्विनी । अवदत् पुत्र सिद्धार्थों गच्छ राम यथासुखम् ॥ ४० ॥ अरोगं सर्वसिद्धार्थमयोध्यां पुनरागतम् । पश्यामि त्वां सुखं वत्स सुस्थितं राजवर्त्मनि ॥ ४१ ॥
Acharya Shri Kailassagarsuri Gyanmandin
करणी च अन्तर्गत शल्यनिर्गमनकारिणीं च । ओषधीं मूलिकां मन्त्रैरभिमन्त्रय रक्षां चकार, रक्षाहेतुत्वेन हस्ते बबन्धेत्यर्थः । पुनर्जजाप च ॥ ३७ ॥ ३८ ॥ उवाचेति । अतिप्रहृष्टेव दुःखवशवर्तिन्यपि पुत्रमुखोद्यासार्थमति सन्तुष्टेव भावयन्तीत्यर्थः । असंसज्जमानया स्खलन्त्येत्यर्थः ॥ ३९ ॥ केन प्रकारेणोवाचे त्यत्राह-आनम्येति । आनम्य आनमय्य । सिद्धार्थः सिद्धप्रयोजनः । गच्छेत्यत्रेतिकरणं द्रष्टव्यम् ||४०|| अरोगमिति । सर्वसिद्धार्थ सिद्ध सर्वप्रयोजनम् । त्रीनिति । त्रीन् विक्रमान पदविक्षेपान् ॥ ३५ ॥ ऋत इति । शुभमङ्गलाः मङ्गलानामपि मङ्गलाः, मङ्गलद्रव्याणामप्यतिशयदायका इत्यर्थः ॥ ३६ ॥ इतीति । पुत्रस्य रामस्य शिरसि शेषान् श्वेताक्षतान कृत्वा गन्धैश्च समालभ्य चन्दनेविलिप्य सिद्धार्था दृष्टवीर्याम् ओषधीं मालिकां विशल्यकरणीम् अन्तर्गतशल्य निर्गमनकारिणी मालिकां च गुलिकीकृत्य शुभां रक्षां चकार, रक्षाहेतुत्वेन हस्ते बबन्धेत्यर्थः । तां मन्त्रैरभिजजाप च ॥३७॥३८॥ उवाचेति । संसज्जमानया अन्तः खेदगद्गदया ॥ ३९ ॥ केन प्रकारेणोवाचेत्यत्राह-आनम्येति । आनम्य गच्छेत्यत्र इतिकरणं द्रष्टव्यम् ||४०|| अरोगमिति । सर्वसिद्धार्थ सिद्धसर्वप्रयोजनम् ॥ ४१ ॥
For Private And Personal Use Only