________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बा.रा.भू
९८०
ताम् अनृणताम् । स्वार्थे ष्यम् ॥३४॥ कृतान्तस्येति । आच्छिद्य छित्त्वा, अन्यथाकृत्वेत्यर्थः ॥३५॥ गच्छेति । साना सान्त्वरूपेण ॥३६॥ क्षणमात्र मप्यदर्शनासहिष्णुत्वात प्रत्यागमनकाल इदानीमेव सम्भवेदिति प्रार्थयते-अपीति । यत् येन चतुर्दशवर्षान्तेन कालेन वनात्प्रत्यागतं त्वां पुनः पश्येयं । कृतान्तस्य गतिः पुत्र दुर्विभाव्यासदाभुवि । यस्त्वां सञ्चोदयतिमे वचआच्छिद्य राघव ॥ ३५॥ गच्छेदानी महा
स. २५ बाहो क्षेमेण पुनरागतः। नन्दयिष्यसिमा पुत्र साम्ना वाक्येन चारुणा ॥ ३६ ॥ अपीदानीं सकालः स्यात् वनात् प्रत्यागतं पुनः। यत्त्वां पुत्रक पश्येयं जटावल्कलधारिणम् ॥ ३७॥ तथा हि राम वनवासनिश्चितं समीक्ष्य देवी परमेण चेतसा । उवाच रामं शुभलक्षणं वचो बभूव च स्वस्त्ययनाभिकांक्षिणी ॥ ३८॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे चतुर्विशः सर्गः॥ २४ ॥
साऽपनीय तमायासमुपस्टश्य जलं शुचिः। चकार माता रामस्य मङ्गलानि मनस्विनी ॥१॥ स काल इदानीमेवापि स्यात् । अपिशब्दः सम्भावनायाम् । “ अपि-सम्भावनाप्रश्नगर्दाशङ्कासमुच्चये" इति वैजयन्ती । यत् यत्रेतिवार्थः ॥ ३७॥ तथेति । वनवासनिश्चितं निश्चितवनवासम् । परमेण चेतसा, आदरेणेतियावत् । स्वस्त्ययनं मङ्गलम् अभिकासितुं शीलमस्या अस्तीति तथा ॥ ३८॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने चतुर्विशः सर्गः ॥ २४ ॥ तान्येव स्वस्त्ययनानि दर्शयतिसेत्यादि । आयासं केशम् । अपनीय त्यक्त्वा ।जलमुपस्पृश्य आचम्येत्यर्थः। “उपस्पर्शस्त्वाचमनम्" इत्यमरः। रोदनस्याशुचिताडेतुत्वात् देवताप्रार्थना कृतान्तस्येति । वच आच्छिद्य निराकृत्य त्वां सचोदयतीति यत्, बनायेति शेषः । ततो दुर्विभाज्या ॥३५॥ गच्छेति । श्लक्ष्णेन नीरागदोषेण । चारुणा मनोहरेण । साम्ना सान्त्ववचनेन ॥ ३६ ॥ क्षणमात्रमप्यदर्शनासहिष्णुत्वात प्रत्यागमनकाल इदानीमेव सम्भवेदिति प्रार्थयते-अपीदानीमिति । यस्मिन् काले वनात्मत्यागतं त्वां पुनः पश्येयं स काल इदानीमेव स्यात, शीघ्रं गच्छेति भावः ॥ ३७ ॥ तयेति । परमेण आदरेण स्वस्त्ययनं मङ्गलममिकावितुं शीलमस्या इति तथा ॥३८॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्यायां अयोध्याकाण्डव्याख्यायां चतुर्विशः सर्गः ॥ २४ ॥ सेति । आयासं दुःखम् । अपनीय विनीय।
स-या मा रमा सा मनस्विन्यपि यस्थ मङ्गलानि मङ्गयते गम्यते आभ्यामिति मझौ पादौ तौ लान्ति स्वीकुर्वन्ति विषयोकुर्वन्तीति तानि पादसंवाहनादीनि । चकार कारष्यति च । शुचि जलं भूत्वा प्रलये तस्य अतारामस्य अतः प्रातः आरामो बनं येनासौ तथोक्तस्तस्य । अनिवार्यवनवासबुद्धित्वेन रामस्य प्राप्तेत्युक्तिः । इयं मनस्विनी कौसल्या मालानि स्वस्त्ययनानि चकारेति तु जलं जडम् अहम् । उपस्पृश्य विषयी कत्येत्यर्थः । " श्रीव रूपिण्युलगायपादयोः" इत्यादेः ॥ १॥
For Private And Personal Use Only