________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
नस्य शुचिना कर्त्तव्यत्वादुपस्पर्शनमुक्तम् । अतएव शुचिरित्युच्यते । मङ्गलानि मङ्गलाशासनानि ॥१॥नेति । शीघ्र विनिवर्तस्व, चतुर्दशवर्षान्त । इतिशेषः । सतां कमे अभिषेचने ॥२॥ यमिति। पालयसि अप्रच्युतमनुतिष्ठसि ।धृत्या प्रीत्या। नियमेन समग्रतया।स वैप्रसिद्धोधर्मः। राघवशार्दूल रघु ॥ कुलश्रेष्ठ! अभिरक्षतु अभितो रक्षतु । पुनर्द्धर्मपदप्रयोगात् स एव रक्षत्वित्युच्यते॥३॥ येभ्य इति। चैत्येषु चतुष्पथेषु ।आयतनेषु देवतागृहेषु । ते देवा इति
न शक्यसे वारयितुं गच्छेदानी रघूत्तम । शीघ्रं च विनिवर्तस्व वर्त्तस्व च सतां क्रमे ॥२॥ यं पालयसि धर्म त्वं धृत्या च नियमेन च । स वैराघवशार्दूल धर्मस्त्वामभिरक्षतु ॥३॥ येभ्यः प्रणमसे पुत्र चैत्येष्वायतनेषु च ।ते च त्वामभिरक्षन्तु वनेसह महर्षिभिः॥४॥ यानि दत्तानि तेऽस्त्राणि विश्वामित्रेण धीमता । तानि त्वामभिरक्षन्तु गुणैः समुदितं सदा॥५॥ पितृशुश्रूषया पुत्र मातृशुश्रूषया तथा।सत्येन चमहाबाहो चिरञ्जीवाभिरक्षितः॥६॥ समित्कुश पवित्राणि वेद्यश्चायतनानि च। स्थण्डिलानि विचित्राणि शैला वृक्षाःक्षुपा हृदाः। पतङ्गाः पन्नगाः सिंहास्त्वा रक्षन्तु
नरोत्तम ॥७॥ स्वस्ति साध्याश्च विश्वे च मरुतश्च महर्षयः। स्वस्ति धाता विधाता च स्वस्ति पूषा भगोऽर्यमा ॥८॥ सिद्धम् ॥ ४॥ यानीति । समुदितं श्रेष्ठम् ॥५॥६॥ समिदित्यादिसार्घश्चोक एकान्वयः ।वन्याः समित्कुशादयः। प्रमादकृतप्रत्यवायसहिष्णवः सन्तो वनेचरन्तं भवन्तं रक्षन्त्विति वाक्यार्थः। पवित्राणि दर्भग्रन्थयः । वेद्यः अनिधिष्ण्यानि, स्थण्डिलानि देवपूजास्थलानि तेषामलङ्कारभेदात् संस्थानभेदाच वैचित्र्यम् । वृक्षग्रहणं लतादेरप्युपलक्षणम्।क्षुपाः ह्रस्वशाखाशिफायुक्ता वृक्षविशेषाः। “हस्वशाखाशिफः क्षुपः" इत्यमरः। वृक्षविशेषणं या। ह्रस्वशाखावृक्षेष्वेव प्रायशो देवतास्सन्निधत इत्यैतिह्यात् । पतङ्गाः पक्षिणः ॥ ७॥ स्वस्तीत्यादि । कुर्वन्त्वित्यनुषङ्गः । स्वस्ति घातत्यादौ करो
जलमुपस्पृश्य आचम्य । मङ्गलानि मङ्गलबचनानि चकार ॥१॥ न शक्यस इति । सतां क्रमे सता मार्गे ॥२-४॥ यानीति । गुणैः समुदितं सद्गुणसम्पन्नम् ॥५॥६॥ Ka समिदिति । क्षुपा द्वस्वशाखाशिफायुक्ताः वृक्षाः " द्वस्वशाखाशिफः क्षुपः" इत्यमरः । पतङ्गाः पक्षिणः॥७॥ स्वस्ति साध्या इति । स्वस्ति कुर्वन्त्विति " स-पितृशुश्रूषया " पिता मात्रा " स्पेकशेषेण मातृपितृशुश्रूषया । मातृशुवषया झानिशुश्रूषया ॥ ॥ विष०-समिदादिपदेन तदधिष्ठाभ्यो देवता उपलक्ष्यन्ते ॥ ७ ॥ स-विधाता सृष्टिकर्ता )
धाता बम्जयोनिः । पूषा सूर्यः । माग: ऐश्वर्यादिः । अर्थ सर्वस्वामिन् राम ! मा प्रमाणम् ॥ ८ ॥
For Private And Personal Use Only