________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
एवायासः पुरुषप्रयत्नः समिदादिजन्यानेः पुरुषप्रयत्नजत्वात्तथा निरूपणम् । त्वया जलस्थानीयेन, विहीनां मां शोक एवानिः शोकानि वैतानिकाग्निः।। कयित्वा शुष्कीकृत्य। हिमात्यये शिशिरतौं । कक्षं गुल्मम् । चित्रभानुः वन्योऽग्निरिव मां प्रधक्ष्यति भस्मीकरिष्यति ॥६-८॥ कथं हीति । उत्तरा।
त्वया विहीनामिह मां शोकाग्निरतुलो महान् । प्रवक्ष्यति यथा कक्षं चित्रभानुर्हिमात्यये ॥ ८॥ कथं हि धेनुः स्वं वत्सं गच्छन्तं नानुगच्छति । अहं त्वाऽनुगमिष्यामि पुत्र यत्र गमिष्यसि ॥९॥ तथा निगदितं मात्रा तदाक्यं पुरुषर्षभः । श्रुत्वा रामोऽब्रवीद्वाक्यं मातरं भृशदुःखिताम् ॥३०॥ कैकेय्या वञ्चितो राजा मयि चारण्यमाश्रिते। भवत्या च परित्यक्तो न नूनं वर्तयिष्यति ॥ ११॥ भर्तुः किल परित्यागो नृशंसः केवलं स्त्रियाः। स भवत्या न कर्तव्यो मनसापि विगर्हितः ॥ १२॥ यावज्जीवति काकुत्स्थः पिता मे जगतीपतिः। शुश्रूषा क्रियतां तावत् स हि धर्मस्सनातनः ॥ १३॥ एवमुक्ता तु रामेण कौसल्या शुभदर्शना । तथेत्युवाच सुप्रीता राममक्लिष्टकारिणम् ॥ १४॥ एवमुक्तस्तु वचनं रामो धर्मभृतां वरः । भूयस्तामब्रवीद्वाक्यं मातरं भृशदुःखिताम् ॥ १५॥ मया चैव भवत्या च कर्त्तव्यं वचनं पितुः । राजा भर्ता गुरुःश्रेष्ठः सर्वेषामीश्वरः प्रभुः ॥१६॥ दो तथेत्युपस्कार्यम् ॥ ९॥ तथेति । तथा निगदितमिति स्ववाचोप्यविषयत्वं दर्शयति मुनिः ॥१०॥ कैकेय्येति । न वर्तयिष्यति न जीविष्यती त्यर्थः ॥ ११॥ भर्तुरिति । नृशंसः नृशंसत्वम्, सिद्धयतीतिशेषः । मनसापि न कर्त्तव्यः, न चिन्तनीय इत्यर्थः॥ १२॥ यावदिति । सः शुश्रूषा । धर्मा शापेक्षया पुंल्लिङ्गत्वम् ॥ १३ ॥ एवमिति । शुभदर्शना धर्माबुद्धिरित्यर्थः ॥ १४॥ दाार्थे पुनराहेत्याह-एवमित्यादिना ॥१५॥ मयेति। उत्तरादिौसा महाधमः चिन्तोमैव महाधूमो यस्य सः। अदर्शनचित्तजः अदर्शनेन हेतुना चित्तजः । निश्वासायाससम्भवः निश्वासानामायासः आवर्तनं तेन सम्भवो वृद्धिर्यस्य सः। स मां कयित्वा मां प्रधक्ष्यतीति सम्बन्धः ॥६-९॥ यथेति पाठः । यथा निगदितं येन प्रकारेण निगदितम् तद्वाक्यं श्रुत्वा आत्मानुगमनं श्रुत्वेति यावत् ॥१०॥ कैकेय्येति । ववितः परित्यक्तः। न वर्तयिष्यति न जीविष्यति ॥ ११ ॥ भर्तुरिति । केवलं नृशंसः अत्यन्तपापहेतुः, मनसा न कर्तव्यः न चिन्तनीयः। तत्र हेतुः
For Private And Personal Use Only