________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsur Gyanmandir
टी.अ.का.
॥९६॥
कणिशग्रहणं तु शिलमेव । इदं फलमूलाद्याहरणं लक्षयति । वर्तयेत् जीवेत् ॥२॥ यस्येति । भृत्याः भटाः। दासाः दास्यकराः। मृटानि श्लाघ्यानि॥३॥ क इति । विवास्यत इतियत् । एतत् कःश्रद्दधेदणवत्पुत्रविवासनस्य असम्भावितत्वात, श्रद्धेयत्वे वा कस्य भयम् न भवेत्, ममाप्येवं विवासनं भवि प्यतीति ॥४॥ नूनमिति । सर्व सुखदुःखादिकम् । आदिशन प्रदिशन् । कृतान्तः दैवम् । यत्र देवेनिमित्ते ॥५॥ अयन्त्वित्यादिश्लोकत्रयमेकं वाक्यम् ।
यस्य भृत्याश्च दासाश्च मृष्टान्यन्नानि भुञ्जते । कथं स भोक्ष्यते नाथो वने मूलफलान्ययम् ॥ ३॥क एतच्छू द्दधेत् श्रुत्वा कस्य वा न भवेद्भयम् । गुणवान् दयितो राजा राघवो यदिवास्यते ॥ ४ ॥ नूनं तु बलवान् लोके कृतान्तः सर्वमादिशन् । लोके रामाभिरामस्त्वं वनं यत्र गमिष्यसि ॥५॥अयं तु मामात्मभवस्तवादर्शन मारुतः । विलापदुःखसमिधो रुदिताश्रुहृताहुतिः ॥६॥ चिन्ताबाष्पमहाधूमस्तवादर्शनचित्तजः । कर्शयित्वा
भृशं पुत्र निश्वासायाससम्भवः ॥७॥ अब विश्लेषजनितशोकस्याग्निसमाधिरुच्यते । आत्मभवः देहजः अदर्शनमारुतः शोकाग्मेरदर्शनजत्वात् तस्य मारुतत्वनिरूपणम् । विलापदुःखं प्रलापज दुःखं तदेव समिधा यस्य तस्य तदर्धकत्वात् “आपञ्चैव हलन्तानाम्" इति समिच्छन्दाहाप। रुदिताभूणि रोदनजाश्रूणि, तान्येव हुता क्षिप्ता आहुति यस्य, चिन्ताबाप्पः चिन्तोष्मा स एव महाधूमो यस्य । तवादर्शनेन हेतुना चित्तज इति हेतुमात्रोक्तिः। आगमनचित्तज इति पाठान्तरम् । निःश्वास उच्छेन क्षेत्रपतितव्रीह्यादिकणिशग्रहणमुञ्छः, तेन वर्तयेत् जीवेत् । भवानिति शेषः ॥ २॥ यस्येति । भृत्या मन्त्रिमुख्याः भर्तु योग्याः । दासाः भुजिष्याः, दास्य इति यावत् ॥शाक इति । एवंविधो राघयो निर्वास्यत इति यत् एतच्छुत्वा राजानं का श्रद्दधेत कःश्रद्दध्यात् । कस्य वा भयं न भवेत! ॥४ानूनमिति । सर्वमादिशन् सुखदुःखं प्रयच्छन कृतान्तो विधिर्षलवान् यत्र देवे सति त्वं वनं गमिष्यसि ॥५॥ अयं त्वित्यादि श्लोकत्रयमेकं वाक्यम् । आत्मभवः देहजः । अदर्शनस्य शोकाग्नि प्रवर्द्धकत्वान्मारुतत्वनिरूपणम् । विलापदुःखसमिधः विलापदुःखान्येव समिधो यस्य सः । रुदिताश्रूण्येव हुताः कृतहोमाः आहुतयो यस्य सः। चिन्ताबाष्प
सत्य-मामात्मभवस्तवेत्येकं पदम । मा रमा माषा आत्मभवो ब्रह्मा तान्या स्तयो यस्यासौ तथोक्तः ॥६॥ तवागमने चिन्ता यस्प तत् आगमनचिन्तं मनः तस्मानापत इति तथा। निश्वासापासयोः । संभयो यस्मास तथा (तत्रागमनचिन्तजः इति पाठः) ॥ ७॥
॥१६॥
For Private And Personal Use Only