________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥९५॥
खा.रा.भू. किन्त्वसिना वज्रिणमपि शत्रुं न कल्पये न स्थापयामि, इन्मीत्यर्थः । तीक्ष्णधारण तीक्ष्णाग्रेण । विद्युच्चलितवर्चसा विद्युदिव चलितं निर्गतं वर्चः स्फुलिङ्गटी.अ.कॉ. ॐ रूपं यस्य तेन ॥ ३१ ॥ खङ्गेति । खगकृतमर्दनेन चूर्णीकृतैर्गहना काननमिव निरन्तरा अतएव दुश्वरा संचारायोग्या च भविता भविष्यति ॥ ३२ ॥ सः २३ खड्गधारेति मे खड्गधारया खड्गकोट्या हताः अत एव सविस्फुलिङ्गत्वाद्दीप्यमानाः ज्वलिताः अद्रय इव सविद्युतो मेघा इव च स्थिताः द्विपाः शत्रु ७ खड्गनिष्पेषनिष्पिष्टैर्गहना दुश्वरा च मे । हस्त्यश्वनरहस्तोरुशिरोभिर्भविता मही ॥ ३२ ॥ खड्गधाराहता मेऽद्य दीप्यमाना इवाद्रयः । पतिष्यन्ति द्विपा भूमौ मेघा इव सविद्युतः ॥ ३३ ॥ बद्धगोधाङ्गुलित्राणे प्रगृहीतशरासने । कथं पुरुषमानी स्यात् पुरुषाणां मयि स्थिते ॥ ३४ ॥ वहुभिश्चैकमत्यस्यन्ने केन च बहून् जनान् । विनियोक्ष्याम्यहं बाणान नृवाजिगजमर्मसु ॥ ३५ ॥ अद्य मेऽस्त्रप्रभावस्य प्रभावः प्रभविष्यति । राज्ञश्चाप्रभुतां कर्तु प्रभुत्वं च तव प्रभो ॥ ३६ ॥ अद्य चन्दनसारस्य केयूरामोक्षणस्य च । वसूनां च विमोक्षस्य सुहृदां पालनस्य च ॥ ३७ ॥
| गजाः । भूमौ पतिष्यन्ति ॥ ३३ ॥ बद्धेति । गोधा ज्याघातवारणम् । "गोधा तलं ज्याघातवारणे" इत्यमरः । गोधारूपाङ्गुलिरक्षककवचवति मयि स्थिते सति पुरुषाणां मध्ये कश्चित्कथं पुरुषमानी शूरमानी स्यात् । सर्वे स्त्रीप्राया भविष्यन्तीत्यर्थः ॥ ३४ ॥ बहुभिरिति । अहं बहुभिर्बाणैरेकं शूरम् अत्यस्यन् प्रकर्षेण क्षिपन् । “प्रकर्षे लङ्घनेप्यति" इत्यमरः । एकेन बाणेन बहून् क्षुद्रान् अत्यस्यन् अनेन प्रकारेण नृवाजिगजानां मर्मसु मर्मस्थलेषु । बाणान्विनियोक्ष्यामि विसर्जयिष्यामि । अतः कथमेको बहून् इनिष्यतीति न चिन्तनीयमितिभावः ॥ ३५ ॥ अद्येति । अत्रप्रभावस्य अस्त्रमाहात्म्यस्य । प्रभावः प्रतापः " प्रतापमाहात्म्ययोः प्रभावः स्यात् " इति वैजयन्ती ॥ ३६ ॥ अद्येत्यादिश्लोकद्वयमेकं वाक्यम् । चन्दनसारस्य चन्दनपङ्गस्य । केयूरामोक्षणस्य अङ्गदधारणस्य । “केयूरमङ्गदम् " इत्यमरः । वसूनां धनानां विमोक्षस्य त्यागस्य । सुहृदां पालनस्य शत्रुभ्यो रक्ष नानुरूपं वज्रिणमपि न कल्पये, किमुतान्यमित्यर्थः॥३१॥ खङ्गेति । खड्गनिप्पेषनिष्पिष्टेः खङ्गकृतमर्दनेन चूर्णीकृतैरित्यर्थः । गहना काननमिव निरन्तरा । अत एव दुश्वरा ॥३२॥३३॥ बद्धगोधेति । गोधा ज्याघातवारणम् । मयि स्थिते पुरुषमानी आत्मानं पुरुषश्रेष्ठं मन्यमानः शूराभिमानी कथं स्यादित्यर्थः ॥ ३४ ॥ बहुभिरिति । अत्य स्थन प्रकर्षेण क्षिपन बहुभिर्बाणैरेकं पुरुषम् एकेन वाणेन ॥३५॥ अथेति । अत्रप्रभावस्य अस्त्रमाहात्म्यस्य प्रभावः प्रतापः ॥ ३६ ॥ अद्येतिश्लोकद्वयमेकं वाक्यम् ।
ॐ ॥९५॥
For Private And Personal Use Only