________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एव वनवासः पूर्वसम्मत इत्याह-पूर्वेति । पुत्रेषु प्रजाः पुत्रवत्परिपालने परिपालननिमित्तं निक्षिप्य । पूर्वराजर्षिवृत्त्या तदाचारेण वनवासो विधीयते ॥ २६ ॥ स चेत्यादिश्लोकद्वयमेकान्वयम् । हे राम ! स त्वं राजनि दशरथे एवमनेकाग्रे चलचित्ते अव्यवस्थितचित्ते सति । राज्यविभ्रमशङ्कया राज्यस्य विविधचलनशङ्कया । आत्मनि राज्यं नेच्छसि चेददं तव राज्यं च रक्षेयम् । कथमिव ? वेला सागरमिव । नोचेद्वीरलोकभाक् माभूवम् । ते स चेद्राजन्यनेकाग्रे राज्यविभ्रमशङ्कया । नैवमिच्छसि धर्मात्मन् राज्यं राम त्वमात्मनि ॥ २७ ॥ प्रतिजाने च ते A मा वीरलोकभाक् । राज्यं च तव रक्षेयमहं वेलेव सागरम् ॥ २८ ॥ मङ्गलैरभिषिञ्चस्व तत्र त्वं व्याष्टतो भव । अहमेको महीपालानलं वारयितुं बलात् ॥ २९ ॥ न शोभार्थाविमौ बाहू न धनुर्भूषणाय मे । नासिरबन्ध नार्था न शरास्तम्भ हेतवः । अमित्रदमनार्थं मे सर्वमेतच्चतुष्टयम् ॥ ३० ॥ न चाहं कामयेऽत्यर्थे यः स्यात् शत्रुर्मतो मम । असिना तीक्ष्णधारेण विद्यञ्चलितवर्चसा । प्रगृहीतेन वै शत्रुं वज्रिणं वा न कल्पये ॥ ३१॥ तुभ्यं प्रतिजाने च ॥ २७ ॥ २८ ॥ मङ्गलैरिति । मङ्गलैः मङ्गलद्रव्ययुक्तैर्जलैः । अभिषिञ्चस्व आत्मानं वसिष्ठादिभिरितिशेषः । तत्र अभिषेककर्मणि । व्यापृतोभव, व्यासक्तचित्तोभवेत्यर्थः । अलं पर्याप्तः । वारयितुं निवारयितुम् ॥ २९ ॥ न शोभार्थावित्यादिसार्द्धश्लोकमेकं वाक्यम् । नेति । आबन्ध नार्थाय आपाततो वीरभूषणतया कटयां बन्धनरूपप्रयोजनायेत्यर्थः । स्तम्भहेतवः केवलं लक्ष्यभूतस्तम्भहेतवः । तूण्यां स्थापनहेतव इति वा ॥३०॥ न चाहमित्यादिसार्धश्लोकः । यः मम अत्यर्थं शत्रुः शातयिता । मतः स्यात्, परीक्षकैरिति शेषः । तमहं न कामये तस्य स्थितिं न सह इत्यर्थः । राजर्षिवृत्त्या तदाचारेण वनवासो विधीयते ॥ २६ ॥ स चेत्यादिश्लोकद्वयमेकं वाक्यम् । हे राम ! राजनि दशरथे, एवमनेकामे चलचित्ते प्रतिकूले सति । राज्य विभ्रमशङ्कया राज्यस्य विविधचचनशङ्कया आत्मनि राज्यं राजत्वं नेच्छसि चेत् नाङ्गीकरोषि चेत तब राज्यं रक्षेयम् अन्यथा जीरलोकभाकू माभूवमिति ते | प्रतिजानं इत्यन्वयः ॥ २७ ॥ मङ्गलैरिति । मङ्गलैः मङ्गलद्रव्ययुक्तैः जलैरभिषिञ्श्वस्व आत्मानम्, वसिष्ठादिभिरिति शेषः । तत्र अभिषेककर्मणि व्यापृतो भव व्यमचित्तो भव । वारयितुं निवारयितुम् । अहम् अलं पर्याप्तः ॥ २९ ॥ त्वदिष्टावरणप्रयोजनायैव मम बाहुवीर्यादिकमित्याह-न शोभनार्थावित्यादिसार्धश्लोकमेकं वाक्यम् । अस्ःि खङ्गः आबन्धनार्थाय । आ बध्यत इत्याबन्धनम् अलङ्कारः, तदर्थं न तथा स्तम्भहेतवः स्तम्भः तूष्णींभावः ॥३०॥ न चाहमिति । यः शत्रुर्मतः शत्रुत्वेन मम सम्मतः स्यात् तं न कामये न समत्वेन गणयामीत्यर्थः । इन्द्रोऽपि समो न भवतीत्याह असिनेति । विद्यञ्चलितवर्चसा प्रगृहीतेन अनेन खङ्गेन छेद
For Private And Personal Use Only