________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kalassagarsur Gyarmandir
रा.भ.
न स्यात् तदा प्रकृतः पूर्वमेव प्रसक्तः स वरश्च प्रागेव दत्तः स्यात् । किंचेति चार्थः। अयंभावः-भरतायावश्यं राज्यं देयम्, रामस्य ज्येष्ठत्वेन तद्विषयोटी .अ.को, भिषेक आरभ्यते तदानीं त्वया वरद्वयं प्रष्टव्यं तब्याजेन रामो विवास्यते भरतोभिषिच्यत इति कैकेयीदशरथाभ्यां सङ्केतितम् । अन्यथा सा वरद्वयं किमेतावत्पर्यन्तं न याचेत, अयाचितमपि तत् नीतिज्ञो राजा वा कुतो न पूर्वमेव परिहरेदिति ॥ ९॥ अस्तु तथा, ततः किमित्यत्राह-लोकविद्विष्ट
लोकविद्विष्टमारब्धं त्वदन्यस्याभिषेचनम् । नोत्सहे सहितुं वीर तत्र मे क्षन्तुमर्हसि ॥१०॥ येनेयमागता द्वैधं तव बुद्धिर्महामते । स हि धर्मो मम द्वेष्यः प्रसङ्गाद्यस्य मुह्यसि ॥ ११॥ कथं त्वं कर्मणा शक्तः कैकेयीवशवर्तिनः । करिष्यसि पितुर्वाक्यमधर्मिष्ठं विगर्हितम् ॥ १२॥ यद्ययं किल्बिषाद्धेदः कृतोऽप्येवं न गृह्यते । जायते तत्र मे
दुःखं धर्मसङ्गश्च गर्हितः ॥ १३॥ [तवायं धर्मसंयोगो लोकस्यास्य विगर्हितः।] मिति । लोकविद्विष्टं ज्येष्ठं परित्यज्य कनिष्ठस्याभिषेचनात् । लोकविद्वेषविषयमित्यारम्भक्रियाविशेषणम् । मे तत्र असहनविषये क्षन्तुमर्हसि ॥१०॥ यथाकथञ्चित् पितृवचनं कर्तव्यमेवेति मन्यानं रामं प्रत्याह-येनेति । इयं ते बुद्धिः येन पितृवचनपरिपालनरूपधर्मेण । द्वैध भेदम् । आगता प्राप्ता नाभिषिच्ये वनं प्रवेक्ष्यामीति । यस्य प्रसङ्गात्प्रस्तावात् मुह्यसि अकरणे प्रत्यवायः स्यादिति मोहं प्राप्नोषि, स धर्मों मम द्वेष्यः ॥११॥ मोह विशद यति-कथमिति । कर्मणा पौरुषकर्मणा, शक्तः प्रतीकारसमर्थ इत्यर्थः। तं कैकेयीवशवर्तित्वादेवाधर्मिष्ठं विगहितं च वाक्यं कथं केनप्रकारेण मोई विना करिष्यसि ॥ १२॥ त्वन्मोदादेव मे दुःखमित्याह-यदीति । अयं भेदः अभिषेकविधातात्मा विपर्यासः । किल्बिषात् मृपावरकल्पनात् ।कृतोपि। काल एव दत्तश्च भवेत् । हि यस्मात् प्रकृतश्च सः पुरैव प्रवृत्तः स वरः । अयं भावः-पूर्व यदि वरप्रतिज्ञा तदानीमेव वरदानं युक्तम् इदन्तु विरुद्धम् तदानी वरप्रक्रमः प्रक्रान्तस्य वरस्य दशरथ एव स्थापनम् अत्रावसरे तस्य विनियोग इति, तस्माद्वरप्रदानं सत्यमिति न मन्य इति ॥ ९ ॥ लोकविद्विष्टमिति । ज्येष्ठ पारेत्यज्य कनिष्ठस्याभिषेचनाल्लोकद्वेषविषयम् । तब मे तद्विषयकं मम प्रतिवचनापराधम् ॥ १० ॥ येनेति । येन पितृवचनपरिपालनरूपधर्मेण द्वैधमागता पूर्व
नाङ्गाकार इत्येवं भेदं प्राप्ता, यस्य प्रसड़ात मद्यसि अकरणे प्रत्यवायः स्यादितिमोह प्रानोषीत्यर्थः । स धर्मों मम देयः ॥ ११॥ ॥९३॥ कथमिति । कर्मणा शक्तः प्रतीकारकर्मणा ॥ १२ ॥ यद्ययमिति । अयं भेदः अभिषेककार्यविधातः किल्बिषात् कपटात कृतोपि, ताभ्यामिति शेषः । एवंविधः किल्विषकृत इति, यदि यतः कारणात् न गृह्यते, त्वयेतिशेषः । तत्र तस्माद्धेतोः मे दुःखं जायते कपटकृतमप्यर्थं श्रीरामः साधुतया गृहातीति मे व्यथा जायत
For Private And Personal Use Only