________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
टी.अ.का
KAस.२३
बा.रा.भू अग्रहस्तमित्यादिसाईश्लोकः। अग्रं हस्तस्य अग्रहस्तः। एकदेशसमासः। पूर्वापरादिव्यतिरिक्तस्थलेपि कचिदस्ति । अग्रं चासौ हस्तश्च अग्रहस्तः 19"हस्तशब्दो हस्तावयवे उपचर्यते” इति वामनः । शरीरे उरसि, अध इत्यर्थः । यद्वा शिरोधराम् शरीरे तिर्यगूर्व चकारादधश्च पातयित्वा क्रोधा तिशयेन विविध शिरोविधूननं कृत्वेत्यर्थः । अग्राक्ष्णा कटाक्षेण तिर्यग्वीक्षमाणस्सन अब्रवीत् ॥ ४॥ अस्थान इति । धर्मदोषप्रसङ्गेन पितृवचनपरि
अस्थाने सम्भ्रमो यस्य जातो वै सुमहानयम् । धर्मदोषप्रसङ्गेन लोकस्यानतिशया ॥५॥
कथं ह्येतदसम्भ्रान्तस्त्वद्विधो वक्तुमर्हति । यथा दैवमशौण्डीरं शौण्डीर क्षत्रियर्षभ ॥ ६॥ पालनरूपधर्महानिप्रसत्या । लोकस्य अनतिशङ्कया अतिशङ्कापरिहाराय मयाऽननुष्ठिते लोको धर्म त्यजतीति शङ्कापरिहाराय चेत्यर्थः। एवंविधकार्य द्वयार्थ यस्य प्रसिद्धस्य ते जातोऽयं सुमहान् सम्भ्रमः वनगमनत्वरा, अस्थाने अनवकाशे अयुक्त इत्यर्थः । "अवकाशे स्थितौ स्थानम्" इत्यमरः ॥५॥ तथात्वमेवोपपादयति-कथमित्यादिना । हे शौण्डीर समर्थ ! देवमपि निराकर्नु क्षमेत्यर्थः । क्षत्रियर्षभ क्षत्रियश्रेष्ट ! त्वं अशोण्डीर मशरम् एतत् दैवं यथा समर्थ वदसि एवमसम्भ्रान्तस्त्वद्विधः कथं वक्तुमर्हति ? न कथमपि । अशूरः संभ्रान्तःक्षत्रबन्धुरेवासमर्थ देवमनुसर्तुमर्हतीत्यर्थः अस्थान इत्यादिश्लोकद्वयस्यैवं वार्थ:-धर्महानिप्रसत्त्या लोकस्यानातिशया आनतिः पूजा, तद्विषये शङ्कया लोको मामधार्मिष्ठ इति न पूजयेदितिशयेत्यर्थः। यस्य ते अयुक्तः सुमहान् सम्भ्रमो भ्रान्तिः जातः धर्महानिलोंकानत्यभावो वा सर्वातिशायिनस्ते किं करिष्यतीति स्सन्नित्यर्थः । तिर्यगूयमिति । शिरोधरी ग्रीवाम् तिर्यग्य शरीरे चकारादधश्च पातयित्वा क्रोधातिशयेन शिरोधूननं कृत्वेत्यर्थः। अप्राणा कटाक्षेण तिर्यग्वी क्षमाणः ॥ ४॥ अस्थान इति । धर्मदोषप्रसङ्गेन धर्मः पितृवचनपरिपालनम् दोषः तस्याकरणम् प्रसङ्गेन प्राप्त्या, धर्महानिप्रसक्तयेत्यर्थः । हेतुना लोकस्य अनतिशङ्कया पितृवचनमकुर्वन अस्मान कथं रक्षिष्यतीतिशङ्का, तदभावोऽनतिशङ्का तया च हेतुना यस्येति सुमहान् सम्भ्रमः वनगमनत्वराजातः, अयमयुक्तः भ्रान्तिमूल एवेत्यर्थः ॥ ५ ॥ तथात्वमेवाह-कथमिति । अशोण्डीरम् असमर्थम् अकिश्चित्करमेव देवं प्रवलमिति यथा त्वं वदसि, एवं शौण्डीरः सत्य-लोकस्यानतिशतया रामः पितृवचनं नाकरोदिति लोकशङ्का माभूदिति युद्धया । अस्थाने अविषये वनवासादौ । यः सम्प्रमो जातः अब धर्मदोषप्रसङ्गेन तद्विरोधप्रसक्त्या अस्थाने अयुक्त इत्यावृत्तेनान्वयः॥५॥
१ शौण्टीत क्षत्रियर्षभः । इति तीर्थायपाठः ।
प.
॥१२॥
For Private And Personal Use Only