________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsur Gyanmandir
ल्पितम् अचिन्तितमेव यत्कार्यम् अकस्मात् झटिति प्रवर्त्तते तदेवस्य कर्म ॥२४॥ उपदेशफलमाह-एतयेत्यादिश्लोकद्वयेन । तत्त्वया अवाधितया एतया।
टी.अ.कां. ॥२१॥ बुद्धया। आत्मानम् अन्तःकरणम । आत्मना स्वयमेव उपदेशं विनत्यर्थः। संस्तभ्य निश्चलीक्रत्यास्थितस्य मे अभिषेके व्याहतेपि परितापोन विद्यते। स०१२
तस्मात् तत्त्वस्येवरूपत्वात् । अनुविधाय अनुसृत्य । आभिषेचनिकीम् अभिषेकप्रयोजनिक क्रियाम् अलङ्करणादि । प्रतिसंहारय निवर्तय॥२५॥२६॥
एतया तत्त्वया बुद्धया संस्तभ्यात्मानमात्मना। व्याहतेऽप्यभिषेके मे परितापो न विद्यते ॥२५॥ तस्मादपरितापः संस्त्वमप्यनुविधाय माम् । प्रतिसंहारय क्षिप्रमाभिषेचनिकी क्रियाम् ॥२६॥ एभिरेव घटैः सर्वेरभिषेचनसम्भृतैः । मम लक्ष्मण तापस्ये व्रतस्नानं भविष्यति ॥२७॥ अथवा किंममैतेन राजद्रव्यमतेन तु । उद्धृतं मे स्वयं तोयं व्रता
देशं करिष्यति ॥२८॥ माच लक्ष्मण सन्तापं कार्कीलक्षम्या विपर्यये। राज्यं वा वनवासो वा वनवासो महोदयः॥२९॥ एभिरिति । तापस्ये तापसयोग्ये कर्मणीत्यर्थः । अभिषेचनसम्भृतैः अभिषेचनाय सम्पादितः ॥२७॥ घटस्थजलैः तापस्यव्रतस्राने क्रियमाणेपि राज्य लिप्सया स्नानं कृतवानिति कैकेय्याः शङ्का माभूदिति स्नानं निषेधति-अथवेति । राजद्रव्यमतेन राजद्रव्यत्वेन सम्मतेन । राज्यद्रव्यमयेनेतिपाठे-राज्यार्थ। मङ्गलद्रव्यप्रचुरेणेत्यर्थः। व्रतादेशं व्रतनियमम् ॥२८॥मा चेति । राज्यं वा वनवासो वा उभावपि तुल्यौ । विचार्यमाणे वनवास एव महोदयः महाफल,
कर्म कार्य नन्विति योजना ॥ २४ ॥ उपदिष्टं बुद्धियोगमुपसंहरति-पतयेति । तत्त्वया यथार्थया । आत्मानमन्तःकरणम् । आत्मना संस्तभ्य स्वेनैव नियम्य । यदि Iतिष्ठसि तदा मे अभिषेके व्याहतेपि परितोषो न विद्यते न भवति ॥ २५॥ उक्तानुवादपूर्वकं तत्कालकर्तव्य नियुड़े-तस्मादिति । तस्मादुपदिष्टवुद्धियोगवलाद
परितापस्सन त्वमपि मामनुविधाय अनुसृत्य । आभिषेचनिकी क्रिया तत्प्रयोजनिकी क्रियाम् । अलङ्कारादिकर्म क्षिप्रं प्रतिसंहारय ॥ २६ ॥ एभिरिति । तापस्ये तापसयोग्ये कर्मणि । अभिषेचनसम्भृतैः घटादिस्थजलैः । व्रतनानं व्रतसङ्कल्पापेक्षितं स्नानं भविष्यति ॥२७॥ नापस्पत्रतस्नाने क्रियमाणेपि राज्यलिप्सया स्नान
५ ॥११॥ कतवानिति कैकेय्याः शङ्का माभूदिति स्नानं निषेधति-अथवेति । राज्यद्रव्यमयेन राज्याभिषेकसाधनमङ्गलद्रव्यप्रचुरणेत्यर्थः । व्रतादेशं व्रताधिकारं करिal प्यति ॥ २८ ॥ मा चेति । राज्यं वा वनवासो वेति राज्यं यथावत्पालनेन धर्मसाधनमस्तु वनवासो वा तपस्साधनमस्तु, तथापि तयोर्मध्ये विशेषोस्तीत्याह वनवासो महोदयः, प्रजानां कृत्याकृत्यचिन्ताद्याक्षेपराहित्येन सततं तपःप्रवृनिसाधनत्वात् विशिष्य पितृवाक्यपरिपालनप्रयोजनवत्त्वाच महोदयः महाभ्युदय
For Private And Personal Use Only