________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatirth.org
Acharya Shri Kalassagarsun Gyarmandie
मयि हस्तगतराज्यभ्रंशरूपः, तस्यां पूर्वस्थितवात्सल्यापगमरूपः । पतितः प्राप्तः ॥२०॥ एवं प्रबलमपि देवं पौरुषेण निवर्त्यतामित्यवाह-क इति। क्रियत इति कर्म कार्यम् । फलरूपकार्यतोऽन्यत्र यस्य ग्रहणं ज्ञानसाधनम् । न दृश्यते कार्येकानुमेयं यस्य स्वरूपमित्यर्थः। तेन फलात्पूर्वमज्ञायमानेन देवेन । कः पुमान योद्धमुत्सहते, कस्तं निवारयितुं समर्थ इत्यर्थः ॥२१॥ ननु कर्मणोऽन्यत्रेत्युक्तं किं तत्कर्म तबाह-सुखदुःखे इति । अब भयशब्देन
कश्च देवेन सौमित्रे योद्धमुत्सहते पुमान् । यस्य न ग्रहणं किञ्चित् कर्मणोऽन्यत्र दृश्यते ॥२१॥सुखदुःखे भय क्रोधौ लाभालाभौ भवाभवौ । यच्च किञ्चित्तथाभूतं ननु दैवस्य कर्म तत् ॥२२॥ ऋषयोप्युग्रतपसो देवेनाभिप्रपी डिताः । उत्सृज्य नियमांस्तीवान भ्रश्यन्ते काममन्युभिः ॥२३॥ असङ्कल्पितमेवेह यदकस्मात् प्रवर्त्तते । निव
त्यारम्भमारब्धं ननु देवस्य कर्म तत् ॥ २४ ॥ Kdशान्तिरुच्यते । भवाभवौ उत्पत्तिविनाशौ । यच्च किञ्चित्तथाभूतम् अचिन्त्यकारणकं लोके दृश्यते । तत्सर्व देवस्य कर्म कार्यम् ननु हीत्यर्थः ॥२२॥
देवप्राबल्यमेव द्रढयति-ऋषय इति । ऋषयः विश्वामित्रादयः। नियमान व्रतोपवासादीन् । काममन्युभिरिति व्यक्तिबहुत्वात् बहुवचनम् । भ्रश्यन्ते,ऋषित्वा दिति शेषः॥२३॥ यच्च किश्चित्तथाभूतमित्येतद्विशदयति-असङ्कल्पितमिति । इह अस्मिन् लोके । आरब्धम् उपकान्तम् । आरम्भ कार्य निवर्त्य असङ्क
भूतैर्जनः अन्यथा न क्रियते तदैवं तु देवकृतमेव, अतः व्यक्तं स्पष्टं मयि तस्यां च विपर्ययः पतितः प्राप्तः मयि विपर्ययो हस्तगतराज्यबंशरूपः तस्या पूर्वस्थित Koवात्सल्यापगमरूपः ॥ २० ॥ ननु कथं देवस्य प्राबल्यम, तत्सत्वे वा किम्मानम् ! इत्यत्राह-कश्चिदिति । यस्य देवस्य, ग्रहणं ज्ञानसाधनम् कर्मणः कार्यभूतात्
फलात् अन्यत्र न दृश्यते तेन देवेन को वा योद्धमुत्सहते तदेव को वा निवारयितुं शक्त इत्यर्थः। अयमर्थः-कर्मणोऽन्यत्र न दृश्यत इत्यनेन देवस्य नित्यानुमेयतया योद्धमशक्यत्वात्प्रावल्यम् । अत एव तत्सत्वे अनुमानं प्रमाणमित्युक्तमिति ॥ २१ ॥ अतो देवमेव प्रबलम्, पौरुष काकतालीयमित्याशयेनाह सुखदुःखे इति । भवाभवी बन्धमोक्षी यच्च किचित तथाभूतम् अचिन्त्यकारणकं कार्यमस्ति तत्सर्व देवस्य ननु कर्म कार्यम् ॥ २२ ॥ देवमावल्यमेव द्रढयति-ऋषय इति । ऋषयः विश्वामित्रादयः, नियमान इटान दृढनियमान । वश्यन्ते अभिभूयन्ते । काममन्युभिरितिबहुवचनं व्यक्तिबाहुल्यात् ॥ २३ ॥ इदानीं प्रारब्धस्य लक्षणमाह-असङ्कल्पितमिति । इह अस्मिन लोके । आरब्धम् आरम्भम् , उपक्रान्तं कार्य निवर्त्य असङ्कल्पितमेव यत्कार्यम् अकस्मादृष्टहेतुं विना प्रवर्तते तदेवस्य
JNN
For Private And Personal Use Only