SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsur Gyanmandir - वा.रा.भ. कैकेय्याःप्रतिपत्तिः बुद्धिः कथं स्यात् । पीडनमिति लक्ष्मणबद्धया ॥१६॥ रामानु-कैकेया इति । कृतान्तविहितः कृतः अन्तो येनेति व्युत्पत्त्या कृतान्तशब्देन कालरी .ला उच्यते । तेन विहितः कालचादित इत्यर्थः। अयं भावः अयमभिप्रायः । देवः देवसम्बन्धी न भवेद्यदि मम पीडने कैकेय्याः प्रतिपत्तिः कथं स्यादिति योजना॥१६॥ जानासीति । हे सौम्य! मातृषु मे अन्तरं भेदः "अन्तरमवकाशावधिपरिधानान्तर्दिभेदतादर्थे " इति निघण्टुः। यथा न भूतपूर्व तथा जानासि । तस्या अपि कैकेय्या जानासि हि यथा सौम्य न मातृपु ममान्तरम् । भूतपूर्व विशेषो वा तस्या मयि सुतेऽपि वा ॥ १७॥ सोभिषेक निवृत्त्यर्थः प्रवासार्थेश्च दुर्वचैः। उग्रैर्वाक्यैरहं तस्या नान्यदैवात्समर्थये ॥ १८॥ कथं प्रकृतिसंपन्ना राजपुत्री तथागुणा । ब्रूयात् सा प्राकृतेव स्त्री मत्पीडां भर्तृसन्निधौ ॥१९॥ यदचिन्त्यं तु तदैवं भूतेष्वपि न हन्यते । व्यक्तं मयि च तस्यां च पतितो हि विपर्ययः ॥ २०॥ अपि । मयि वा सुते भरते वा विशेषो यथा न भूतपूर्वः तथा जानासि हि ॥ १७॥ स इति । सोऽहम् एवमनुभूततद्वात्सल्योऽहम् । वाक्पैरिति हेतो तृतीया। देवादन्यत् बुद्धिभेदकारणं न समर्थये न निश्चिनामि ॥ १८॥ कथमिति । प्रकृतिः साधुस्वभावः। “प्रकृतिः पञ्चभूतेषु स्वभावे मूल KIकारण " इति निघण्टुः । प्रकृतिसम्पन्ना साधुस्वभावसम्पन्ना। राजपुत्री महाकुलप्रसूता। तथागुणा पूर्वानुभूतदयादिसद्गुणा। सा कैकयी प्राकृतव स्त्री दुष्प्रकृतिका दुष्कुला गुणलेशशून्या क्षुद्रा स्त्रीव । भर्तृसन्निधौ न तु यस्य कस्यचित् सन्निधौ, नतु दूत्यादिमुखेन । मत्पीडां मम निरवधिकलेह पात्रस्य पीडा, न त्वप्रियमात्रं कथं ब्रूयात् व्यक्तं वदेत् नतु सूचयेत, तस्मादेवमेवात्र कारणमिति ॥ १९॥ यदिति । यदचिन्त्यम् अचिन्त्यप्रभावं देवं। पातदेव सर्वेष्यपि भूतेषु न हन्यते सर्वत्राप्यप्रतिहतफलप्रदानस्वभावं वर्तते व्यक्तम् अत्र संशयो नास्ति । अतएव हि मयि तस्यांच विपर्ययः परीत्यम् ।। देवकारणकमेव कैकेय्या भाववैपरीत्यमित्यत्र तस्याः सहजभावं स्मारयति जानासीति । हे सौम्य ! मातृषु मम अन्तरं वैषम्यं यथा न भूतपूर्वम् तस्याः कैकेय्याः सुते भरते मयि च विशेषः वैषम्यं यथा न भूतपूर्व तथा जानासि किम् ?अतो दैवकृतं वैषम्यमिति निश्चय इति भावः ॥ १७ ॥ अयमेव मम निश्चय इत्याह स इति । सोऽहमभिषेकनिवृतिप्रयोजनैर्वाक्यैश्च तस्या एवं प्रवर्तने देवादन्यन्न किश्चिदपि समर्थये कारणतया निश्चिनोमि ॥ १८ ॥ देवमेतस्या भावभेदहेतुरित्याह कमिति। प्रकृतिसम्पन्ना न तु स्वभावदारुणा, तथागुणा पतत्क्षणात्प्रागनुभूततादृक्परमकल्याणगुणा च भतंसनिधी च कथं कुर्यात् ? यदि न देवविहता इति शेषः। 17॥ १९ ॥ इद विषये न केवलं तस्या एव देववशत्वम्, ममापीत्याह-यदिति । हि यस्मात् यत्कार्यम् अचिन्त्यम् ईग्विधमिति चिन्तयितुमशक्यम् भूतेषु न हन्यते । For Private And Personal Use Only
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy