________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अभिषेचयिता । लुट् ॥ १२ ॥ मयीति | स्पष्टम् ॥१३॥ बुद्धिरिति । येन मया इथं बुद्धिः वनवासबुद्धिः । प्रणीता शिक्षिता । मनश्च सुसमाहितं स्थिरीकृतम् । तं मां संक्केष्टुं केशयितुं नाहमि, अतः प्रत्रजिष्यामि माचिरं मास्तु विलम्बः || १४ || पूर्वसर्गे धर्मोऽस्तीत्युक्तम्, अधुना प्रसङ्गाद्धर्मातिरिक्तं देवं किञ्चिदस्ति फलप्रदमिति दर्शयन् अस्मत्प्रवासे न कैकेयीनिमित्तम्, अतः सा न निन्दितव्येत्याह-कृतान्त इत्यादिना । कृतान्तः दैवम् । “कृतान्तो यमसिद्धान्तदेवा
मम प्रवाजनादद्य कृतकृत्या नृपात्मजा । सुतं भरतमव्यग्रमभिषेचयिता ततः ॥ १२ ॥ मयि चीराजिनधरे जटामण्डलधारिणि । गतेऽरण्यं च कैकेय्या भविष्यति मनस्सुखम् ॥ १३ ॥ बुद्धिः प्रणीता येनेयं मनश्च सुसमा हितम् । तं तु नार्हामि संक्तेष्टं प्रवजिष्यामि माचिरम् ॥ १४ ॥ कृतान्तस्त्वेव सौमित्रे द्रष्टव्यो मत्प्रवासने । राज्यस्य च वितीर्णस्य पुनरेव निवर्तने ॥ १५ ॥ कैकेय्याः प्रतिपत्तिर्हि कथं स्यान्मम पीडने । यदि भावो न देवोऽयं कृतान्तविहितो भवेत् ॥ १६ ॥
Acharya Shri Kailassagarsuri Gyanmandir
कुशलकर्मसु ” इति निघण्टुः । दैवं च प्राक्तनादृष्टमित्येके । ईश्वर एवेत्याचार्याः । द्रष्टव्यः कारणत्वेनेति शेषः । वितीर्णस्य दत्तस्य ॥ १५ ॥ कृतान्त एवत्येव कारव्यवच्छेद्यमाह- कैकेय्या इति । देवः देवीसम्बन्धी कैकेयीसम्बन्धी । अयं भावः अयमभिप्रायः । कृतान्तविहितो यदि न भवेत् तदा मम पीडने अन्वगेव अनुपदं शीघ्रमेव ॥ ११ ॥ ममेति । अय्यमम् अम्याकुलम् ॥ १२ ॥ १३ ॥ बुद्धिरिति । येन मन्थरादिजनेन । इयं बुद्धिः अभिषेकत्यागाध्यवसायः । प्रणीता प्रवर्तिता । तस्मिन् मनश्च सुसमाहितं स्थिरीकृतम् । तं जनमपि । संक्ष्टुं क्लेशपितुम् । नार्हामि न शक्नोमि । किंपुनः पितरौ । अतः प्रवजिष्यामीत्यर्थः यद्वा बुद्धिरिति, येन पित्रा इयं बुद्धिः प्रणीता अयमभिषेकत्यागाध्यवसायः प्रवृत्तः पितुरनुग्रहादेव तदीयसत्यपरिपालनार्थम् अभिषेकत्यागलक्षणाध्यव सायः प्रवृत्त इति भावः । मनश्व सुसमाहितम् यस्य शिक्षोपदेशाभ्यां मनसः सौगुण्यं जातमित्यर्थः । तं तथाविधं पितरं संक्टुं सत्यपाशेन संक्केशयितुं नाहमि माचिरं शीघ्रं मत्रजिष्यामि ॥ १४ ॥ एवं पवासं निश्चित्य तत्र कैकेय्या निमित्तत्वशङ्कया क्रुद्धस्य लक्ष्मणस्य क्रोधनिवृत्तये आह- कृतान्त इति । कृतान्तः देवमेव ७) मत्प्रवासने द्रष्टव्यः, कारणत्वेनेति शेषः । वितीर्णस्य प्राप्तस्य राज्यस्य ॥ १५ ॥ कृतान्तस्त्वेवेत्यवधारणांशमाह- कैकेय्या इति । कृतान्तविहिनः कृतः अन्तो येनेति व्युत्पत्त्या कृतान्तशब्देन कालः । तेन विहितः भावः अभिप्रायः न भवेद्यदि मम पीडने कैकेय्याः प्रवृत्तिः अध्यवसायः कथं स्यादिति योजना ॥ १६ ॥
For Private And Personal Use Only