________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsur Gyanmandir
वा.रा.भ. पतस्याः केकेय्याः । शङ्कामयं शङ्कारूपम् । स्वार्थ मयद । प्राचुर्ये वा ॥७॥ नेति । मातृणां पितुर्वा विषये कदाचन कृतं बुद्धिपूर्वमपि विप्रियंटी .अ.का. ॥८॥ वन स्मरामि । अबुद्धम् अबुद्धिपूर्वकमपि विप्रियं न स्मरामि ॥ ८॥ सत्य इति । सत्यः सत्यवचनः । सत्याभिसन्धः सत्यप्रतिज्ञः । सत्यपराक्रमः स. २२ अमोघपराक्रमः। परलोकभयात् परलोकसम्बन्धिभयहेतोः, परलोकहानेरितियावत् । निर्भयोऽस्तु प्रतिष्ठितसत्यतादिति भावः ॥९॥ तस्येति । तस्य
तस्याः शङ्कामयं दुःखं मुहूर्तमपि नोत्सहे । मनसि प्रतिसञ्जातं सौमित्रेऽहमुपेक्षितुम् ॥७॥ न बुद्धिपूर्व नाबुद्धं स्मरामीह कदाचन । मातृणां वा पितुर्वाहं कृतमल्पं च विप्रियम् ॥ ८॥ सत्यः सत्याभिसन्धश्च नित्यं सत्यपरा क्रमः । परलोकभयादीतो निर्भयोऽस्तु पिता मम ॥ ९॥ तस्यापि हि भवेदस्मिन् कर्मण्यप्रतिसंहृते । सत्यं नेति मनस्तापस्तस्य तापस्तपेच्च माम् ॥ १०॥ अभिषेकविधानं तु तस्मात् संहृत्य लक्ष्मण। अन्वगेवाहमिच्छामि
वनं गन्तुमितः पुनः॥१७॥ दशरथस्यापि । अस्मिन्नभिषेककर्मणि । अप्रतिसंहृते अनिवर्तिते सति। सत्यं नेति मम वरदानविषयसत्यं नेति मनस्तापो भवेत, तस्य तापः माँ, तपेत् तापयेदित्यर्थः ॥१०॥ अभिषेकेति । अन्वक अनुपदमेव । “अन्वगन्वक्षमनुगेनुपदम्" इत्यमरः । इतः अस्मानगरात् ॥११॥
परितप्यते, सा मे माता कौसल्या यथा चेत् सविशङ्का न स्यात् तथा कुरु । पितृवाक्यपरिपालनस्य रामकर्तव्यस्य अल्पकालसाध्यत्वात् तद्विपये त्वया न विषे धत्तव्यमित्युपदेशेनेत्यर्थः । यद्वा यस्या इति मे माता कैकेयीति पार्थः । स्पष्टमन्यत् ॥६॥ कुत इत्यत आह-तस्या इति । तस्याः मनसि प्रतिसनातं शङ्कामयं शङ्का
रूपं दुःखम् उपेक्षितुं नोत्सहे ॥७॥ न बुद्धीति । मातृणां पितुर्वा बुद्धिपूर्वम् अबुद्धम् अबुद्धिपूर्व वा अल्पमपि विनियम् कदाचन कदाचिदपि न कृतं नस्मरामि चेति । सम्बन्धः ॥८॥ सत्य इति । सत्यः सत्यविशिष्टः। सत्याभिसन्धः बरदानविषये सत्यप्रतिज्ञः। परलोकभयात् परलोकमयहेतोरसत्यात् ॥९॥ तस्येति । तस्मिन् कर्मणि अप्रतिसंहते अनिवर्तिते। सत्यं नेति अस्मद्वचनं सत्यं भविष्यति वानवेति तस्यापि मनस्तापो भवेत् तस्य दशरथस्प तापो मां तपेत् तापयेत् ॥१०॥ अभिषेकेति। ८९॥
सत्य-तस्याः कौसल्यायाः । मनसि प्रतिसातं शङ्कामय जीवन्पुनरागमिष्पति नवति शङ्कामकम् । दुःखम् उदीक्षितुम उपेक्षितुम् ॥ ७॥ परलोकमयादीतः परलोकमपम् पातपति प्रापषतीति पर Vलोकमयात् पापं तस्माद्रीतः ॥९॥
For Private And Personal Use Only