________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsur Gyanmandir
अथ रामः सौमित्रः कैकेयीविषयं रोषमुपशमयति-अथेत्यादिश्चोकद्वयमेकं वाक्यम् । सविशेषमन्तरङ्गजनापेक्षया सातिशयम् । अमर्षितं प्राप्तासहनम् । रोषविस्फारितेक्षणं क्रोधविस्तारितनयनम् । आसाद्य अभिमुखीकृत्य । सुहत्त्वादिविशेषणं कोपेप्यनुपेक्षणीयत्वाय । सत्त्वं सर्वविषयकं स्वं बलम् ।। धिर्येण धारयन् अप्रकटयन् । आत्मवान प्रशस्तमनाः, वश्यमनस्क इत्यर्थः॥ १॥२॥ निगृह्येत्युपकप्तमिति च श्लोकद्वयमेकान्वयम् । रोष पित्रादि विष
अथ तं व्यथया दीनं सविशेषममर्षितम् । श्वसन्तमिव नागेन्द्रं रोषविस्फारितेक्षणम् ॥१॥ आसाद्य रामः सौमित्रिं सुहृदं भ्रातरं प्रियम् । उवाचेदं स धैर्येण धारयन् सत्त्वमात्मवान् ॥ २ ॥ निगृह्य रोष शोकं च धैर्यमाश्रित्य केवलम् । अवमानं निरस्येमं गृहीत्वा हर्षमुत्तमम् ॥३॥ उपक्लप्तं हि यत्किञ्चिदभिषेकार्थमद्य मे। सर्व विसर्जय क्षिप्रं कुरु कार्य निरत्ययम् ॥४॥ सौमित्रे योऽभिषेकार्थे मम सम्भारसम्भ्रमः। अभिषेकनिवृत्त्यर्थे सोऽस्तु सम्भार
सम्भ्रमः ॥५॥ यस्या मदभिषेकार्थे मानसं परितप्यते । माता मे सा यथा न स्यात् सविशङ्का तथा कुरु॥६॥ यम् । शोकं मद्विषयम् । रोपशोकयोनिग्रहे हेतुमाह धैर्यमाश्रित्येति । केवलमिति धैर्यनरन्तर्यमुच्यते । अवमानम् आरब्धाभिषेकत्यागपूर्वकवनगमनम्।। निरस्य निजदौर्बल्यकृतत्वाभावानिवार्य । उत्तमं हर्ष सत्यपरिपालनेन पितरंतारयिष्याम इति बुद्धिजन्यम् । मेऽभिषेकार्थमुपकप्तं सम्पादितं यत्किञ्चिदल कारादिकं तत्सर्वे विसर्जय। निरत्ययं निरपायं, सत्यपरिपालनोपयुक्तं । कार्य वल्कलधारणादिकं कुरु ॥३॥४॥सौमित्र इति । सम्भारसम्भ्रमः सम्भारसम्पा दनविषयोत्साहः । अभिषेकनिवृत्त्यर्थे अभिषेकनिवृत्तिरूपवनवासार्थे । स सम्भारसम्भ्रमोऽस्तु वनवासोचितसाधनसम्पादनविषयो भवत्वित्यर्थः॥५॥ यस्या इति । मदभिषेकार्थे मदभिषेकप्रयोजनतिपये । माता कैकेयी सविशङ्का लक्ष्मणेन सम्मन्य राज्यं पुनः किं रामो अहिष्यतीति शङ्कावती ॥६॥ अमेत्यादिश्लोकद्वयमेकं वाक्यम् । सविशेषम सातिशयम, विस्फारितम आसाद्य अभिमुखीभूय धैर्यण हेतुना सत्वं चित्ताविकृतिम् धारयन्त्रवाच ॥१॥२॥ निगृह्येत्यादिश्लोकद्वयमेकं वाक्यम् । अवमानं पितृनिमित्तं जातम् । उपकृतं संभृतम्, निरत्ययं नाशरहितम्, निर्विघ्नमिति यावत् । कार्य वनवासोपयुक्तवल्कलाद्या नयनरूपं कुवित्युवाचेतिपूर्वेण सम्बन्धः ॥३॥४॥ सौमित्र इति । संभारसम्भ्रमः संभारसंपादनोत्सवः । अभिषेकनिवृत्यर्थ-अभिषेकनिवृत्तिः अर्थः प्रयोजनं यस्य | स तथोक्तः तस्मिन् । सम्भारसम्नमोऽस्तु बनवासोचितसाधनसम्पादनविषयो भवत्वित्यर्थः॥५॥ यस्या इति । मदभिषेकार्थे मदभिषेकनिवृत्तिनिमित्तं, मानसं|
For Private And Personal Use Only