________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
बा.रा.भू.
डी.अ.का.
वर्त्तते । "अस्मदो द्वयोश्व" इतिद्विवचने बहुवचनादेशादेवं व्याख्यातम् । एवञ्च सति "अनुज्ञातश्च भवता पूर्वमेव यदस्म्यहम् " इतिवक्ष्यमाणलक्ष्मण ८८॥ वचनं चोपपद्यते । स्वस्त्ययनानि शोभनप्राप्तिप्रार्थनानि । समाप्ते चतुर्दशवर्षाचरणीये व्रते समाप्ते । यथा पुनरागच्छेषं तथा स्वस्त्ययनानि कुरुष । स० २१ पुनरागमने निदर्शनमाह यथेति । स्वर्गाश्युतो ययातिः यथा सत्येन सत्यवचनेन । अष्टकादिदौहित्रोक्त सत्यवचनेन पुनः स्वर्गमगच्छत्तथेत्यर्थः ।
यशो ह्यहं केवलराज्य कारणान्न पृष्ठतः कर्तुमलं महोदयम् । अदीर्घकाले न तु देवि जीविते वृणेऽवरामद्य मही मधर्मतः ॥ ६२ ॥ प्रसादयन्नरवृषभः स्वमातरं पराक्रमाज्जिगमिषुरेव दण्डकान् । अथानुजं भृशमनुशास्य दर्शनं चकार तां हृदि जननीं प्रदक्षिणम् ॥ ६३ ॥ इत्यार्षे श्रीरामायणे आदि : श्रीमदयोध्याकाण्डे एकविंशः सर्गः ॥ २१ ॥ तथोक्तं महाभारते - "आतिष्ठस्व रथं राजन् विक्रमस्व विहायसम् । वयमप्यत्र यास्यामो यत्र लोको भविष्यति ॥ इत्यादिना ॥ ६१ ॥ यश इति । केवल राज्यकारणात् धर्मविरहित राज्यहेतोः । महोदयं महाफलम् यशः पृष्ठतः कर्तुम् उपेक्षितुमहं नालं न समर्थोस्मि । किञ्च अदीर्घकाले चञ्चले । जीविते प्राणधारणे । निमित्तसप्तमीयम् । तडिद्वचञ्चलजीवितनिमित्तम् अवरां तुच्छप्रयोजनभूतां महीम् अपमता न वृणे न स्वीकरोमि ॥ ६२ ॥ प्रसादयन्निति । पराक्रमात् ' राम तस्मादितः शीघ्रं वनं गन्तुं त्वमर्हसि ' इत्युक्त के केयीप्रेरणात्। अनुजं दर्शनं स्वमतम् अनुशास्य प्रदश्येत्यर्थः । शासिर्द्विकर्मकः । हृदि प्रदक्षिणं चकार, प्रदक्षिणं कर्तु सङ्कल्पितवानित्यर्थः । लोकप्रसिद्धास्त्रयः पुरुषार्थाः, तेषु सर्वमूलत्वादितरयोः सापायत्वाच्च धर्म एवाश्रयणीय इति स्थापितं भवति ॥ ६३ ॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने एकविंशः सर्गः ॥ २१ ॥ समाप्ते चतुर्दशवर्षाचरणीयते समाप्त इत्यर्थः ॥ ६१ ॥ यश इति । केवलराज्यकारणात् धर्मविरहितराज्यहेतोः । महोदयं महाफलम् । यशः प्राप्तराज्यं त्यक्त्वा पितृवाक्यपरिपालनं कृतवानित्येवंरूपं यशः । पृष्ठतः कर्तु तिरस्कर्तुम्, नालं न शक्नोमि । जीविते अदीर्घकाले सति अवरां तुच्छां महीम् अर्थतो न वृण इति सम्बन्धः ।। ६२ ।। प्रसादयन्निति । पराक्रमात "राम तस्मादितःशीघ्रं वनं गन्तुं त्वमर्हसि " इत्युक्त कैकेयीप्रेरणात् । अनुजं दर्शनं स्वमतं, धर्मरहस्यमित्यर्थः । अनुशास्य उपदिश्य तां जननीं प्रदक्षिणं कृत्वा हृदि गन्तुं मनश्चकारेत्यर्थः ॥ ६३॥ इति श्रीमहे ० श्रीरामायणतत्त्व० अयोध्याकाण्डव्याख्यायां एकविंशः सर्गः ॥२१॥ ॥८८॥ सत्य०-पराक्रमात् लोपनिमित्ता मी शीर्यमाश्रित्य । दर्शनं धर्मरहस्यम् । हृदि व्यापन् प्रदक्षिणं चकार । यहा पराक्रमात् परस्याः शत्रुतायाः सपत्न्याः अक्रमात् ज्येष्ठे सत्यपि कनिष्ठस्य राज्य दापनप्रयत्नरूपान् ॥ ६३ ॥
1
For Private And Personal Use Only