________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ननूक्तं राजनियोगस्त्वयाप्यनुवर्तनीय इति तत्राह किमिति । लोकेन परलोकेन । स्वधया पितृलोकप्राप्तिसिद्धया किं प्रयोजनमित्यर्थः । अमृतेन स्वर्ग लोकप्राप्तिसिद्धेनामृतेन किं प्रयोजनम् ? कृत्स्रादपि जीवलोकात् आनन्दहेतुभूत महलों का धुपरितनलोकान्तर्वर्तिजीव वर्णात्, सन्निहितादितिशेषः ॥ ५२ ॥ एवं मातृकारुण्येपि धर्म एव स्थिरोऽभूदित्याह - नरैरिति । नरैर्गजग्राहिभिः। उल्काभिः साधनैः अपोह्यनानः निवार्यमाणोपि । अध्यानं मार्गम् । अनु किं जीवितेनेह विना त्वया मे लोकेन वा किं स्वधयाऽमृतेन । श्रेयो मुहूर्त्त तव सन्निधानं ममेह कृत्स्नादपि जीव लोकात् ॥ ५२ ॥ नरैरिवोल्काभिरपोद्यमानो महागजोऽध्वानमनुप्रविष्टः । भूयः प्रजज्वाल विलापमेनं निशम्य रामः करुणं जनन्याः ॥ ५३ ॥ स मातरं चैव विसंज्ञकल्पामार्त्त च सौमित्रिमभिप्रतप्तम् । धर्मे स्थितो धर्म्यमुवाच वाक्यं यथा स एवार्हति तत्र वक्तुम् ॥ ५४ ॥ अहं हि ते लक्ष्मण नित्यमेव जानामि भक्ति च पराक्रमं च। मम त्वभिप्रायमसन्निरीक्ष्य मात्रा सहाभ्यर्दसि मां सुदुःखम् ॥ ५५ ॥ धर्मार्थकामाः किल तात लोके समीक्षिता धर्मफली दयेषु । ते तत्र सर्वे स्युरसंशयं मे भार्येव वश्याभिमता सुपुत्रा ॥ ५६ ॥
प्रविष्टो महागज इव मात्रादिवाक्येन वार्यमाणोपि धर्ममनुप्रविष्टो रामः भूयः प्रजज्वाल संख्धोऽभूत्, स्वमार्ग एव स्थितो भूदित्यर्थः । अत्र नरैरित्युप मानगतबहुवचनेन पुनः सौमित्रिणापि तथैवोक्तमिति गम्यते । अतएव मातरं सौमित्रिं चेति वक्ष्यते ॥ ५३ ॥ स इति । तत्र तस्मिन्धर्मसङ्कटे । अतिकृच्छ्रा स्थायाम् एतादृशध में कनिष्णात पुरुषान्तरस्याभावात् स एवाईतीति वाल्मीकिः स्तौति ॥ ५४ ॥ अहमिति | अभ्यसि व्यथयसि ॥५५॥ धर्मो हि
किमिति । त्वया विना इह लोके किं जीवितेन प्राणधारणेन, लोकेन इतरबन्धुजनेन च ? स्वध्या पितृलोकमा तिसिद्धया सुधयेति पाठे देवभोग्येन वस्तुना च। अमृतेन अपुनर्भवेन च किं प्रयोजनम् ? कृत्स्नाजीवलोकादपि सर्वलोकस्थित जीवलोकसान्निध्यादपि मुहूर्तमपि तव सन्निधानं श्रेय इत्यर्थः ॥ ५२ ॥ नरैरिति । रात्रौ उल्काभिः अलातेः अपोह्यमानः उत्सार्यमाणः गजः ध्वान्तम् अभिप्रविष्टो भूत्वा भीत्या यथा बृंहितैः प्रजज्वाल तप्तोऽभूत्। एवं स्वजनन्याः विलापं निशम्य | अभ्यधिकं प्रजज्वाल ॥५३॥ स इति । तत्र धर्मसङ्कटे । रामः यथोवाच तथा वक्तुं स एवाईति विप्यपि लोकेषु न कोपीति ऋषिः स्ताँति ॥५४॥ अहमिति । अभिप्रायं धर्मैकनिष्ठारूपम् । अभ्पदेसि खिन्नोसि व्यथयसीति वा ॥ ५५ ॥ धर्मस्य सर्वपुरुषार्थमूलत्वादेकस्यैव धर्मस्यानुष्ठाने धर्मार्थकामानां फलप्राप्तिर्भविष्यतीत्यभिसन्धा
For Private And Personal Use Only