________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
महद्दुःखं जायत इतिशेषः । धर्मरहस्यं जानन्नपि त्वं किमर्थमेवं वदसीतिभावः ॥ ३९ ॥ धर्मतत्त्वमाह धर्मों हीति । लोके पुरुषार्थेषु धर्मः परमः प्राथ मिकः प्रधानभूतः । ततः किमित्यत्राह धर्मे सत्यं प्रतिष्ठितमिति । धर्मैकपर्यवसायि सत्यमित्यर्थः । उत्तमं मातृवचनापेक्षया उत्कृष्टम् । एतत् पितृवचनं च धर्मसंश्रितं धर्मैकफलकम् ॥ ४० ॥ एवं सत्यवचनं पितृवचनकरणं च द्वयमपि धर्मनिमित्तमित्युक्तम् । तत्र सत्यस्य कर्त्तव्यत्वमाह-संश्रुत्येति
धर्मों हि परमो लोके धर्मे सत्यं प्रतिष्ठितम् । धर्मसंश्रितमेतच्च पितुर्वचनमुत्तमम् ॥ ४० ॥ संश्रुत्य च पितुर्वाक्यं मातुर्वा ब्राह्राणस्य वा । न कर्त्तव्यं वृथा वीर धर्ममाश्रित्य तिष्ठता ॥ ४१ ॥ सोहं न शक्ष्यामि पितुर्नियोगमति वर्तितुम् । पितुर्हि वचनाद्वीर कैकेय्याऽहं प्रचोदितः ॥ ४२ ॥ तदेनां विसृजानार्थी क्षत्रधर्माश्रितां मतिम् । धर्ममाश्रय माण्यं मदिरनुगम्यताम् ॥ ४३ ॥ तमेवमुक्त्वा सौहार्दादभ्रातरं लक्ष्मणाग्रजः । उवाच भूयः कौसल्यां प्राञ्जलिः शिरसा नतः ॥ ४४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
धर्ममाश्रित्य तिष्ठता धर्मरूपफलमिच्छता ॥ ४१ ॥ पितृवचनकरणस्य कर्त्तव्यत्वमाह-सोहमिति । प्रतिज्ञातवानहमित्यर्थः । नियोगम् आज्ञाम् । पितृ वचनत्वाभावं परिहरति पितुर्हति । पितृवचनकरणं सत्यं च एकैकमेव धर्ममूलं कार्यम् किंपुनर्मिलितमिति भावः ॥ ४२ ॥ एवं सत्यरहस्यमुक्त्वा शमस्य तत्त्वमाह तदिति । अनार्यो दुष्टाम् पितरमपि हत्वा राज्यं कुर्यामित्येवंरूपाम् । क्षत्रधर्माश्रितां केवलशूरधर्माश्रिताम् । रौद्रशाठ्यसहित क्षत्र धर्माश्रितामितिवार्थः । क्षत्रधर्मस्य तथात्वं प्रतिपादितं महाभारते राजधर्मे - " क्षत्रधर्मो महारौद्रः शठकृत्य इति स्मृतः " इति । तादृशीं मतिं विसृज युष्मद्दुःखहेतुत्वेपि सत्ये प्रवर्त्यते । युष्माभिः सत्यादेः रहस्यमविज्ञाय विद्यत इत्यर्थः । अथवा मयि स्नेहात्सत्यस्य शमस्य च अभिप्रायं तत्त्वम् अभिज्ञाय त्वद् दुःखं त्वयोक्तं दुःखव्यञ्जकवाक्यम् मम मातुः महद्दुःखं दुस्तरदुःखनिमित्तं भवति, अतस्त्वया एवं न वक्तव्यमितिवार्थः ॥ ३९ ॥ धर्मोहि । धर्मः परमः सर्वपुरुषार्थेषु उत्तमः । धर्मे सत्यं प्रतिष्ठितं प्रशस्तं कारणम् । एतदुत्तमं प्रधानम् । अहं पितुर्वचनं धर्मसंस्थितं यथा तथा करिष्ये प्रतिजाने च ॥ ४० ॥ पितृवाक्यकरणस्य मया प्रतिश्रुतत्वान्न लङ्घनीयमित्याह-संश्रुत्यति ॥ ४१ ॥ ४२ ॥ तदिति । अनार्याम् अशुभाम् । पितरमपि हत्वा राज्यं करिष्यामीतिलक्षणां बुद्धिं पितृवाक्याकरणे कपराम् मद्बुद्धिः पितृवाक्यकरणैकपरा, अनुगम्यतामनुवर्त्यताम् ॥ ४३ ॥ ४४ ॥
For Private And Personal Use Only