________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
यदीति । प्रायं प्रायोपवेशन, अनशनदीक्षामिति यावत् ॥ २६ ॥ तत इति । निरयशब्देन दुःखं लक्ष्यते । अधर्मात पिप्पलादविषये कृतादुपकारात् । ब्राह्मणनिमित्तका हिंसा त्रह्महत्येति व्युत्पत्त्या पिप्पलादोत्पादितकृत्यया समुद्रस्य प्राप्तं दुःखं त्रह्महत्येत्युच्यते । यदि त्वं यास्यसि वनं त्यक्त्वा मां शोकलालसाम् । अहं प्रायमिहासिप्ये न हि शक्ष्यामि जीवितुम् ॥ २६ ॥ ततस्त्वं प्राप्स्यसे पुत्र निरयं लोकविश्रुतम् । ब्रह्महत्यामिवाधर्मात् समुद्रः सरितां पतिः ॥ २७ ॥ विलपन्तीं तदा दीनां कौसल्यां जननीं ततः । उवाच रामो धर्मात्मा वचनं धर्मसंहितम् ॥ २८ ॥ नास्ति शक्तिः पितुर्वाक्यं समतिक्रमितुं मम । प्रसादये त्वां शिरसा गन्तुमिच्छाम्यहं वनम् ॥ २९ ॥ ऋषिणा च पितुर्वाक्यं कुर्वता व्रत चारिणा । गौर्हता जानता धर्म कण्डुनापि विपश्चिता ॥ ३० ॥
४७
Acharya Shri Kailassagarsuri Gyanmandin
पिप्पलादेन कृत्योत्पादनं च " पिप्पलादसमुत्पन्ने कृत्ये लोकभयंकरि । पाषाणं ते मया दत्तमाहारार्थं प्रकल्पितम् ॥” इति प्रसिद्धम् । साक्षात्समुद्र कर्तृकब्रह्महत्याया अश्रवणादेवं व्याख्यातम् । यद्वा शुश्रूषुरित्यत्र काश्यपः पूर्वजन्मनि मातृशुश्रूषां कृत्वा तत्फलत्वेन दिवं गत्वा प्रजापतित्वं च गत वानिति पुराणकथा । उत्तरत्र समुद्रः किल मातृदुःखजननरूपाधर्माद्ब्रह्महत्यां ब्रह्महत्याप्राप्यनरक विशेषान् प्राप्तवानिति पौराणिकी कथा ॥ २७ ॥ २८ ॥ नास्तीति । शक्तिः उत्साहः । पितृवचनस्य त्वद्वचनापेक्षया प्राथमिकत्वादिति भावः ॥ २९ ॥ मद्विपत्तिकरं कथं करिष्यसीत्यत्राह - ऋषिणे परं मे जीवितादिना न किचित्कार्यम् यदेवमतस्त्वयेति ॥ २५ ॥ यदीति । प्रायं प्रायोपवेशनम् अनशनदीक्षामिति यावत् ॥ २६ ॥ तत इति । निरयं दुःखम् । समुद्र अधर्मात् पिप्पलादमुनिविषयकृतापराधात् । ब्रह्महत्यामिव ब्राह्मणनिमित्तका हिंसा ब्रह्महत्येति व्युत्पत्या पिप्पलादोत्पादित कृत्यया समुद्रप्राप्तं दुःखं ब्रह्महत्येत्युच्यते। पिप्पलादेन कृत्योत्पादनं च " पिप्पलादसमुत्पन्ने कृत्ये लोकभयङ्करि ! " इति वचनात् समुद्रकर्तृकब्रह्महत्याया अश्रवणादेवं व्याख्यातम् ॥ २७ ॥ २८ ॥ पितृवाक्यमतिक्रमितुं शक्तिर्नास्ति त्वद्वचसः कर्तव्यत्वेपि पितृवचनस्य प्रथमतः प्राप्तत्वेन प्राबल्यागपत्रनुष्ठानासम्भवाश्च पितृवचनं प्रथमं कर्तव्यम् ॥ २९ ॥ अपि च पितृवाक्यगौरवेण गोवधमातृवधादिकपि पूर्वर्महात्मभिः कृतम् । अत्र तु पितृवाक्यकरणबो दुःखमात्रं मातुरिति कुतः पितृवचनाकरण कदाचिदुद्रोह समुद्र वर्मा विपदनिर्मितानि चारिक क्रियायाः प्रतिमन्त्रणेन निवारणलक्षणहननात्या समुद्रेण सम्पादिता । तया चानुवभूष दुःखमिति पौराणिकी कथा । " कर्मणा मनसा वाचा सर्व सदा अशजननं प्रोकमहिंसा वह योगिभिः" इति चतुरन्तापयोक्तेः । अत्र प्रतिमन्त्रणेन पिप्पलादशेशजननाय समुहं प्राप्ता ॥ २७ ॥
For Private And Personal Use Only