________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वा.रा.भू
૮ના
मुनिवत् वत्स्यामीति सम्बन्धः । अत्रागिषशब्देन सूदैः संस्कृतं मांसमुच्यते । केवलं मांसस्वीकारस्योत्तरत्र वक्ष्यमाणत्वात् “इदं मेध्यमिदं
INIटी.अ.का. स्वादुनिष्टप्तमिदमनिना" इति ॥ २९ ॥ कुत एवमित्यवाह-भरतायति ।। ३०॥ स इति । सोऽहमित्यर्थः । लघुत्वप्रदर्शनाय पद चाटो चेत्यु तम् । चतुर्दशेत्युक्ते हि गौरवं गम्यते । वन्यानि वनसम्बन्धीनि । वानप्रस्थयोग्यकर्माणीति यावत् । आसेवमानः आचरन् । वर्तयन् जीवनं कुर्वन् ॥३॥
भरताय महाराजो यौवराज्यं प्रयच्छति । मां पुनर्दण्डकारण्ये विवासयति तापसम् ॥ ३०॥ स षट् चाष्टौ च वर्षाणि वत्स्यामि विजने वने । आसेवमानो वन्यानि फलमूलैश्च वर्तयन् ॥ ३१॥ सा निकृत्तेव सालस्य यष्टिः परशुना वने । पपात सहसा देवी देवतेव दिवश्युता ॥ ३२॥ तामदुःखोचितां दृष्ट्वा पतितां कदलीमिव । राम स्तूत्थापयामास मातरं गतचेतसम् ॥ ३३ ॥ उपावृत्त्योत्थितां दीनां वडवामिव वाहिताम् । पांसुकुण्ठितसर्वाङ्गी विममर्श च पाणिना ॥ ३४ ॥ सा राघवमुपासीनमसुखाता सुखोचिता । उवाच पुरुषव्याघ्रमुपशृण्वति लक्ष्मणे ॥ ३५॥ यदि पुत्र न जायेथा मम शोकाय राधव । न स्म दुःखमतो भूयः पश्येयमहमप्रजाः ॥ ३६ ॥ एक एव हि वन्ध्यायाः शोको भवतिमानसः। अप्रजास्मीति सन्तापोन ह्यन्यः पुत्र विद्यते ॥३७॥ सेति । सा पुत्रोक्तं श्रुतवती । सालस्य वृक्षस्य “ अनोकहः कुटः सालः" इत्यमरः । परशुनेति हठात् छेदनज्ञापनाय, नगरे तथा छेदनाभावात् वन इत्युक्तम् ॥३२॥ तामिति । गतचेतसं मूच्छिताम् ॥ ३३॥ उपावृत्त्येति । उपावृत्त्योत्थितां श्रमनिवृत्त्यर्थ भुवि वेष्टनं कृत्वोत्थिताम् । वाहितां भार वहनं प्रापिताम् ॥३४॥ सेति । असुखार्ता दुःखार्ता ॥३५॥ यदीति । हे पुत्र! त्वं यदि न जायेथाः, अतः अजननात् । भूयः अतिशयितम् । दुःखम् इष्टपुत्र विश्लेषजम् न पश्येयम् । अप्रजाः वन्ध्या ॥ ३६ ॥ इदमेवोपपादयति-एक इति । अन्यः विशेषजः, भूलुण्ठनादिः कायिकश्च । अप्रजास्मीत्यसिजभाव भक्ष्यभोज्यादिकं लक्ष्यते, “इदं मेध्यमिदं स्वादु निष्टप्तमिदमाग्निना" इति उत्तरत्र केवलमासस्वीकारस्य वक्ष्यमाणत्वात् ॥२९॥३०॥ स इति । आसेवमानः आचरन वन्यानि वानप्रस्थयोग्यानि कर्माणि । वर्तयन् जीवनं कुर्वन् ॥ ३२ ॥ सेति । यष्टिः शाखेव पपात ॥३२॥ ३३ ॥,उपावृत्त्येति । बाहिता पूर्व भारं प्रापिताम् । उपा वृत्त्य श्रमनिवृत्त्यर्थं भुवि वेष्टनं कृत्वा उत्थितां बडवामिव स्थिताम् ॥३४॥ सेति । उपासीनं सेवमानम् ॥३५॥३६॥ यदीति । यदि मम शोकाय न जायेथा- अतस्तहि
॥८
॥
For Private And Personal Use Only