________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
अभिवाद्य । स्थित इतिशेषः॥२॥२३॥ रामानुजीयम् धर्म चाप्युचितमित्पत्र धर्म चोपहितं कुले इतिपाठः ॥ २३ ॥ सत्यप्रतिज्ञमिति । अभिपेक्ष्यतीत्यत्र हेतुः इदानीमप्यभिषेको नारब्ध इति नाशङ्कनीयमिति भावः। पश्य जानीहि ॥२४॥ दत्तमित्यादि श्लोकद्वयमेकान्वयम् । स राघवः । भोजनेन निमन्त्रितः
वृद्धानां धर्मशीलानां राजर्षीणां महात्मनाम् । प्राप्नुह्यायुश्च कीर्ति च धर्म चोपहितं कुले ॥२३॥ सत्यप्रतिज्ञं पितरं राजानं पश्य राघव । अद्यैव हि त्वां धर्मात्मा यौवराज्येऽभिषेक्ष्यति ॥ २४ ॥ दत्तमासनमालभ्य भोजनेन निम् न्त्रितः। मातरं राघवः किञ्चिद्वीडात्प्राञ्जलिरब्रवीत् ॥२५॥ स स्वभावविनीतश्च गौरवाच्च तदानतः । प्रस्थितो दण्डकारण्यमाप्रष्टमुपचक्रमे ॥२६॥ देवि नूनं न जानीषे महद्भयमुपस्थितम् । इदं तव च दुःखाय वैदेह्या लक्ष्मणस्य च ॥२७॥ गमिष्ये दण्डकारण्यं किमनेनासनेन मे। विष्टरासनयोग्यो हि कालोऽयं मामुपस्थितः
॥ २८ ॥ चतुर्दश हि वर्षाणि वत्स्यामि विजने वने । मधुमूलफलैर्जीवन हित्वा मुनिवदामिषम् ॥ २९॥ सन् दत्तमासनम् । आलभ्य स्पृष्ट्वा । दण्डकारण्यं प्रस्थितोऽहम् आप्रष्टुं गमनं निमन्वयितुम् । उपचक्रमे उद्योगमकार्षमिति मातरमत्रवीदितिसम्बन्धः यद्वा दत्तमिति भोजनेन निमन्त्रितः भोजनार्थ निमन्त्रितः। भोजनार्थ दत्तमासनमालभ्य तिष्ठन् दत्तासने उपवेशनाभावेपि स्पर्शमात्र कार्यमित्याग मात् किञ्चिद्रीडात् एवं बुवन्त्यै मात्रे कथं मया प्रस्थानं कथनीयमिति लजया अब्रवीत् ॥२५॥ किमर्थमासनमुपलभ्य नोपविष्टवानित्यवाह-स इति । |गोरखात् मातरि बहुमानात् । प्रस्थितः प्रस्थातुमुद्यतः। आप्रष्टुम् अनुज्ञा कारयितुम् । उपचक्रमे उपक्रान्तवान् ॥ २६ ॥ अब्रवीदित्युक्तमाहदेवीत्यादि । भयं तवेति शेषः । इदं वक्ष्यमाणं वचनं दुःखाय, तथापि वक्ष्यामीत्यर्थः ॥२७॥ इदंशब्दार्थमाइ-गमिष्य इति । अनेन रत्नमयेन। विष्टरेत्यादि । विष्टरो नाम पञ्चविंशतिदर्भनिर्मितस्तापसासनविशेषः। “पश्चाशद्भिर्भवेद्ब्रह्मा तदर्दैन तु विष्टरः" इति स्मृतेः॥२८॥ चतुर्दशेति । गताम् । उपसंगृह्य अभिवाद्य, स्थित इति शेषः ॥ २१-२३ ॥ सत्यप्रतिज्ञामिति । राजानं पश्य, गत्वेति शेषः । कौसल्यायाः रामस्य राजनिवेशगमनादिव्यापा रानभिज्ञत्वात् राजदर्शननियोगादि ॥ २४॥ दत्तमासनमित्यादिश्लोकद्वयमेकं वाक्यम् । राघवः भोजनेन निमन्वितः सन् दत्तमासनम् आलभ्य स्पृष्ठा, स्वभाव विनीतःगौरवात् मातृत्वप्रयुक्तगौरवाच नतः सन दण्डकारण्यं प्रस्थितः गन्तुमुपक्रान्तोऽहम् । आप्रष्टुं गमनमामन्यर्षितुम् । उपचक्रमे उद्योगमकार्षम्, इति मातरमब्रवी दिति सम्बन्धः ॥२५-२७॥ गमिष्य इति । विष्टरासनं नाम-अविच्छिन्नाप्रपक्षविंशतिदर्भनिर्मितासनमित्यर्थः ॥ २८ ॥ चतुर्दशेति । आमिषशब्देन सूदैः संस्कृतं मांस
For Private And Personal Use Only