________________
Shri Mahavir Jain Aradhana Kendra
बा.रा.भू. ॥७९॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandin
७" रत्यन्तसंयोगे ” इति द्वितीया । समाहिता नियमयुक्ता ॥ १४ ॥ सेति । जुहोति हावयति, अत एव हावयन्तीमिति वक्ष्यति । ब्राह्मणैरितिशेषः ॥ १५ ॥ प्रविश्येत्यादि । देवकार्यनिमित्तमिति द्रव्यजातमिति शेषः ॥ १६ ॥ दधीत्यादि । हविषः हवींषि ॥ १७ ॥ लाजानिति । कृसरं तिठौदनम् । दध्यक्षत सा क्षौमवसना हृष्टा नित्यं व्रतपरायणा। अमिं जुहोति स्म तदा मन्त्रवत् कृतमङ्गला ॥ १५ ॥ प्रविश्य च तदा रामो मातुरन्तःपुरं शुभम् । ददर्श मातरं तत्र हावयन्तीं हुताशनम् । देवकार्यनिमित्तं च तत्रापश्यत् समुद्यतम् ॥ १६ ॥ दध्यक्षतं घृतं चैव मोदकान् हविषस्तथा ॥ १७ ॥ लाजान् माल्यानि शुक्लानि पायसं कृसरं तथा । समिधः पूर्णकुम्भाश्च ददर्श रघुनन्दनः ॥ १८ ॥ तां शुकुक्षौमसंवीतां व्रतयोगेन कर्शिताम् । तर्पयन्तीं दद शद्भिर्देवतां देववर्णिनीम् ॥ १९ ॥ सा चिरस्यात्मजं दृष्ट्वा मातृनन्दनमागतम् । अभिचक्राम संहृष्टा किशोरं वडवा यथा ॥ २० ॥ स मातरमभिक्रान्तामुपसंगृह्य राघवः । परिष्वक्तश्च बाहुभ्यामुपाघ्रातश्च मूर्द्धनि ॥ २१ ॥ तमुवाच दुराधर्ष राघवं सुतमात्मनः । कौसल्या पुत्रवात्सल्यादिदं प्रियहितं वचः ॥ २२ ॥
मित्यारभ्य वाक्यान्तरम्, अतो न क्रियाद्वयविरोधः । पूर्व देवकार्यनिमित्तमिति द्रव्याणि सामान्येनोक्तानि । अथ विशेषेणेति विवेकः ॥१८॥ तामिति । तर्पयन्तीं प्रीणयन्तीम् ॥ १९ ॥ सेति । अभिचकान अभिमुखं जगाम । किशोरम् अश्वबालकम् । वडवा अश्वनी ॥ २० ॥ स इति । उपसंगृह्य ल्येति । रात्रिं सर्वस्यां राज्याम् ॥ १४ ॥ सेति । अग्निं जुहोतीति ब्राह्मणेनेति वेदितव्यम् । तदेवाह हावयन्तीमिति । देवकार्येति । हविषः हवींषि । कृसरं तिलोदनम् ॥ १५-१८ ॥ तामिति । देवतां तर्पयन्तीम् ॥ १९ ॥ सेति । अभिचक्राम अभिमुखं जगाम ॥ २० ॥ स इति । अभिक्रान्तम् आभिमुख्येना
स०-जुहोलिस्म स्वयमेवाजुहोत् । ननु खीणां वेदाविकाराभावात्कथं होतीत्युक्तमिति चेन दशरथस्य वैवस्वतमनुबेन तत्पम्याः कौसल्यायाः मानवीत्वेनोत्तमस्त्रीत्वाद्वेदाधिकारसम्भवात् " आहुरप्युत्तमस्त्रीणा मधिकारं तु वैदिके" इत्यादिस्मृतेः । तदुक्तं वामने " भविष्यदन्तरे भूत्वा मनुर्वैवस्वतो भवान् । तव वंशे भवाम्यङ्ग रामो दाशरथिः स्वयम् पुनर्दशरथो भूत्वा स्वमेवासि पिता मम । मदसपिण्डदानेन मुक्तिस्ते भविता ध्रुवम् ॥” इति ॥ ११ ॥ न केवलं स्वयं जुहोति अपि तु ब्राह्मणैरपीत्याह हावयन्तीति । जुहोतांति पूर्वमुक्तेः । स्वार्थे वा णिच् ।। १६ ।।
For Private And Personal Use Only
स० २०
॥ ७९ ॥