________________
Shri Mahavir Jain Aradhana Kendra
वा.ग.भ.
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विद्धि " इत्यापस्तम्बः । प्रजाभिः पण्डितपामराविशेषेण सर्वाभिः प्रजाभिः अनुरक्तः अनुरागविषयीकृतः । तत्र हेतुमाह प्रजाश्चाप्यनुरञ्जते, अनुरअ यतीत्यर्थः । अन्तर्भावितण्यन्तोऽयम् । स्वयं पूर्वे प्रजा रञ्जयित्वा ततस्ताभिरनुरक्तो भवतीत्यर्थः । चापयः सर्वत्रोक्तगुणसमुच्चयार्थाः ॥ १४ ॥ सानु क्रोशेति । सानुक्रोशः सदयः "कृपा दयानुकम्पा स्यादनुकोशः" इत्यमरः । दया हि नाम परदुःखासहिष्णुत्वम् । जितक्रोधः वशीकृत कोपः। न त्ववशेन कोध उत्पद्यत इत्यर्थः । त्रह्म वेदः तद्विदन्तीति ब्राह्मणाः । “तदधीते तद्वेद" इत्यण् । प्रत्युद्गम्यपूजकः प्रतिपूजकः । त्राह्मणानां प्रतिपूजक इति याज ॐ कादित्वात् षष्ठीसमासः । दीनानुकम्पी दीनेषु विशेषतोऽनुकम्पादान् । विशेषो नाम यत्र दीनो दृष्टः तत्रैव स्थित्वा दानमानादिकरणम् । धर्मज्ञः सामान्य
सानुक्रोशो जितक्रोधो ब्राह्मणप्रतिपूजकः । दीनानुकम्पी धर्मज्ञो नित्यं प्रग्रहवान् शुचिः ॥ १५ ॥
कुलोचित मतिः क्षात्रं धर्म स्वं बहु मन्यते । मन्यते परया की महत् स्वर्गफलं ततः ॥ १६ ॥ नाश्रेयसि रतो विद्वान्न विरुद्धकथारुचिः । उत्तरोत्तरयुक्तौ च वक्ता वाचस्पतिर्यथा ॥ १७ ॥
विशेषधर्म्मज्ञः । प्रग्रहवान् नियमवान्। “अभयं सर्वभूतेभ्यो ददाम्येतद्वतं मम" इति वक्ष्यति । शुचिः परस्वानाकांक्षी । “योऽर्थे शुचिः स हि शुचिर्न मृद्वारिशुचिः शुचिः" इति मनुस्मरणात् ॥ १५ ॥ कुलोचितमतिरिति । कुलोचितमतिः इक्ष्वाकुर्वशोचितदयादाक्षिण्यशरणागत संरक्षणादिधर्मेक प्रवणबुद्धिः । स्वं क्षात्रं धर्मे दुष्टनिग्रहपूर्वकं प्रजापरिपालनरूपम् । बहुमन्यते गौरवेण जानाति । " श्रेयानू स्वधर्मः " इति श्रवणात् । परत्वा पादकधर्मेभ्योपि जनित्वार्जितं क्षत्रधर्मे गौरवेण पश्यतीत्यर्थः । बहुमाने हेतुमाह मन्यत इति । ततः क्षत्रधर्मात् परया की महत् स्वर्गफलं भवतीति मन्यते जानाति । स्ववर्णस्वाश्रमोचितधर्मः कीर्तिद्वारा स्वर्गसाधनमिति ज्ञात्वा क्षत्रधर्मे विशिष्यानुतिष्ठतीत्यर्थः ॥ १६ ॥ नेति । | अश्रेयसि निष्फले कर्मणि । न रतः न सक्तः, कादाचित्कलीलाकर्म न दुष्यतीति भावः । द्यूतादिषु न सक्त इत्यर्थः । तत्र हेतुर्विद्वानिति रञ्जितः, प्रजाश्चाप्यनुरञ्जते अनुरञ्जयतीत्यर्थः । अनेन परस्परानुरागो दर्शितः ॥ १४ ॥ सानुक्रोश इति । सानुक्रोशो दयावान् । दीनानुकम्पी दीनानुकम्पतया तदभितोषितार्थप्रापक इत्यर्थः । अतः सानुक्रोश इत्यनेन न पौनरुक्त्यम् । प्रग्रहवान् नियमनवान्, दुष्टनिग्राहक इत्यर्थः ॥ १५ ॥ कुलेति । कुलोचितमतिः इक्ष्वाकु कुलोचितदयादाक्षिण्यशरणागतसंरक्षणादिधर्मैक प्रवणबुद्धिः, क्षात्रधर्म दुष्टनिग्रहपूर्व कम जापरिपालनरूपं परं धर्म बहु मन्यते, गौरवेण जानीते इत्यर्थः । मन्यत इति । ततः क्षत्रधर्मात्सञ्जातया कीर्त्या स्वर्गफलं साध्यतया मन्यते जानातीत्यर्थः ॥ १६ ॥ नेति । अश्रेयस्करकर्मणि निषिद्धकर्मणि विरुद्धकथा रुचिः, पापकथा
For Private And Personal Use Only
टी.अ.का. म० १
॥५॥