________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailassagarsur Gyanmandir
सजनैरिति सामान्योक्त्या ग्रामकुलादितारतम्यं न तेनाइतमित्युच्यते । तृतीयया तेषामप्रधानत्वावगमात्स्वयमेव तेषामर्थविशेषं दर्शयतीति । सूचितम् । नित्यमित्यनेन नेदं कादाचित्कमित्युच्यते । विशेषणत्रयान्तचकारेण ज्ञानशीलवयोवृद्धः शीलज्ञानवृद्धः ज्ञानवयोवृद्धः शीलवयोवृद्धश्चेति । समुच्चीयते । नेदं नित्याग्निहोत्रवत् क्वचित्समय इत्याह अस्त्रेति । अत्राणां योग्यः अभ्यासः 'योग्यो गुणनिकाभ्यासः' इति वैजयन्ती । तस्यान्तरेषु अव
बुद्धिमान मधुराभाषी पूर्वभाषी प्रियम्वदः । वीर्यवान्न च वीर्येण महता स्वेन विस्मितः॥ १३ ॥
न चानृतकथो विद्वान वृद्धानां प्रतिपूजकः। अनुरक्तःप्रजाभिश्च प्रजाश्चाप्यनुरञ्जते ॥ १४॥ काशेष्वपि । अपिशब्देन समयान्तरेतत्कथनं किं पुनायसिद्धमित्युक्तम्, सत्सङ्गति विना क्षणमपि न तिष्ठतीत्यर्थः॥१२॥ परायत्तसकलव्यापारत्वमाहबुद्धिमानिति । बुद्धिमान् प्रशस्तबुद्धिः । कथं सर्वे जनाः सुखं वसेयुरित्येवं सर्वदा लोकसंरक्षणचिन्तापर इत्यर्थः। मधुराभाषी मधुरभाषणशीलः। यद्यक्ति तन्मधुरमेव वदतीत्यर्थः । पूर्वभाषी अतिनीचं प्रत्यपि स्वयमेव पूर्व भाषमाण इत्यर्थः। प्रियंवदः प्रियवाग्वचनशीलः । “प्रियवशे वदःखच्" इति । ताच्छील्ये खच। "खित्यनव्ययस्य" इति ह्रस्वः। “अरुद्धिपदजन्तस्य-"इति मुमागमः। शत्रुविषयपि प्रियवचनशीलः। वीर्यवान् आश्रितविरोधिनिरसन
क्षमः। पूर्व वीर्यवानित्यविकृतत्वमुक्तमिति न पुनरुक्तिः। महता स्वेन वीर्येण न विस्मितः आश्रितसकलविरोधिनिरसने कृतेऽपि "नातिस्वस्थमना, पाययो" इत्युक्तरीत्या किं कृतं मयेत्यपर्याप्त एव स्थितः। “गर्वः स्याद्विस्मयो मदः" इत्यमरः । वर्तत इति शेपः ॥ १३॥ न चेति । स इति शेषः।
स रामः अनृतकथो न भवति, कथा प्रबन्धकल्पना अनृता असत्या कथा यस्य सः तथा । कल्पितेतिवृत्तकासत्काव्यालापवर्जित इत्यर्थः। वेत्तीति। विद्वान् । विदेः शतुर्वसुः। अनृतकथाभावश्च न तदज्ञानात्, किन्तु तद्वय॑त्वज्ञानादित्यर्थः। वृद्धानां पूर्वोक्तत्रिविधवृद्धानाम् । प्रतिपूजका प्रत्यु। दम्यपूजकः । ब्राह्मणप्रतिपूजक इति पाठे-बालवृद्धसाधारण्येन ब्राह्मणमात्रपूजापरः । “दशवर्षश्च ब्राह्मणः शतवर्षश्च क्षत्रियः । पितापुत्री स्मृतौ । वेदिकज्ञानपूर्णः । सजनैरिति त्रयाणां विशेप्यम् । अस्खयोग्यान्तरेषु अस्वाभ्यासावकाशेषु । एतादृशैःसजनैः सह कथयन्, शाखरहस्यमिति शेषः । आस्त तिष्ठति स्म चेत्यर्थः । अपिशब्देन सजनसल्लापानहकालेप्वपि तत्सल्लापद्योतनात्सद्भिस्सल्लापः सार्वकालिक इति द्योत्यते ॥ १२ ॥ बुद्धिमानिति । बुद्धिमान प्रशस्त धीमान । मधुराभाषी मधुरभाषणशीलः। पूर्वभाषी-आगतान प्रति प्रथमभाषणेन स्वाभिमुख्यत्वं द्योतयतीत्यर्थः । प्रियम्बदः परहितवचनशीलः । वीर्यवानिति परेषामाश्चर्यकारिणापि स्वकीयवीर्येण स्वयं न विस्मितः, अप्राप्तगर्व इत्यर्थः ॥ १३ ॥ न चेति । न चानृतकथा अनृतवचनो न भवति । अनुरक्तः प्रजाभिरनु ।
For Private And Personal Use Only