________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
वा.रा.भू.
टी.अ.का.
वक्ष्यति तत् त्वं करिष्यसि यदि तदा राज्ञो विवक्षितमहमेवाख्यास्यामीत्यर्थः ॥२५॥ राजैव कुतो न वदतीत्यत्राह-यदीति । न विपत्स्यते यदि विफलं न भविष्यति चेदित्यर्थः ॥२६॥ एतदिति । व्यथितः गुरुवचनं करिष्यति नवेति सन्देहस्य विषयोऽस्मीति सन्तप्त इत्यर्थः ॥ २७ ॥ व्यथा
यदि त्वभिहितं राज्ञा त्वयि तन्न विपत्स्यते । ततोऽहमभिधास्यामि न ह्येष त्वयि वक्ष्यति ॥ २६॥ एतत्तु वचनं श्रुत्वा कैकेय्या समुदाहृतम् । उवाच व्यथितो रामस्तां देवीं नृपसन्निधौ ॥ २७ ॥ अहो धिङ्नार्हसे देवि वक्तुं मामीदृशं वचः। अहं हि वचनाद्राज्ञः पतेयमपि पावके । भक्षयेयं विषं तीक्ष्णं मज्जेयमपि चार्णवे ॥२८॥ नियुक्तो गुरुणा पित्रा नृपेण च हितेन च ॥ २९ ॥ तद्ब्रूहि वचनं देवि राज्ञो यदभिकांक्षितम् । करिष्ये प्रतिजाने च रामो द्विाभिभाषते ॥३०॥ तमार्जवसमायुक्तमनार्या सत्यवादिनम् । उवाच रामं कैकेयी वचनं भृशदारुणम् ॥३३॥
पुरा दैवासुरे युद्धे पित्रा ते मम राघव । रक्षितेन वरौ दत्तौ सशल्येन महारणे ॥३२॥ मेवाह-अहो इत्यादिना ॥२८॥ नियुक्त इति । गुरुत्वपितृत्वनृपत्वहितपरत्वानि वचनकरणदेतवः । करिष्ये तदित्यनुकर्षः ॥२९॥ तदिति । यत्कार्य मभिकांक्षितं तद्वचनं तद्विषयवचनं ब्रूहि । तत्कार्य करिष्ये, प्रतिजाने च प्रतिज्ञा करोमि च । रामो द्विाभिभाषते विना प्रतिज्ञया रामो द्विरुक्तिं न । यदीति । राज्ञा राजानुमत्या, मया यदभिहितं तत् त्वयि न विपत्स्यते न व्यर्थ भविष्यति यदि ततोऽहमेवाभिधास्यामि । वदतु राजेवेत्यत आह नहीति । त्वदप्रियत्वात, त्वन्मुखमवलोक्येति शेषः ॥ २६॥ एतदिति । व्यथितः गुरुवचनोल्लडनमनया मयि शङ्कितमिति सन्तप्तः ॥ २७ ॥ अहो इति । ईदृशम् यदि करिष्यसीत्यकरणशङ्कावचनमित्यर्थः ॥ २८॥ नियुक्त इति । गुरुणा इहामुत्र हितोपदेष्टा ॥ २९॥ तद्बूहीति । प्रतिजाने च प्रतिज्ञा करोमि । तदेव स्थिरी |क्रियते रामो द्विाभिभाषत इति । प्रथमं यद्वाक्यं वदति तत्परिहारवचनं न कथयतीत्यर्थः ॥ ३०॥ ३१ ॥ पुरेति । सशल्येन पश्चाच्छल्यापाकरणपूर्वकं मया | सत्य०-३दृशम् याः रमायाः हक् यस्मिन् मयि तं माम् । देश पूर्वोक्त वचः वक्तुं नाईसे, अतस्त्वयैवमुक्त मां धिक् । साक्षान्मालदेवतापिरमा नित्य मां कामयते, ताशस्य मम किमल्पराज्येनेति रामभावमा विश्वकार कविरिति क्षेपम् । नाईसे नाईसि । " चन्द्रादयस्तु मन्यन्ते सर्वस्मादुभयं पदम्" इत्युक्तेरात्मनेपदत्वम् ॥ २८ ॥ न पितृत्वं हिरण्यकशिवादिवदित्याह-हितेनेति । तदपि नोपसेनादिवदित्याह-नूपेणेति । तदपि न धृतराष्ट्रवदित्याह-गुरुणेति ॥ २९ ॥ राम इति परोक्षोक्त्या स्वस्य यथार्थवादित्वं सार्वजनीनमिति सूचयति ॥ ३०॥ देवासुरे मच्चयान्प्रत्ययान्तोऽयम् । कर्तृत्वसम्बन्धेन देवासुरविशिष्टे युद्ध इत्यर्थः ।
महारणे देवासुरखुद्धान्तर्गतदेवसहायार्थ गतवकतके महारणे इत्यर्थः । तेन न पौनरुक्त्यम् । मम । सम्बन्यसामान्ये धष्ठी। स च प्रकृते कर्तृरवरूपः । मया रक्षितेन । सशल्येन शसहितेन । न तावन्मात्रेण, सशल्येन पाणसहितेनेत्यर्थः । क्षत्रियाणां शरादिधारणेनोदीरणं शपथज्ञापक मिति भावः । " शल्यः शङ्की कारे वंशधिकायां च सोमरे " इतिविश्वः ॥ ३२ ॥
॥७३||
For Private And Personal Use Only