________________
Shri Mahavir Jain Aradhana Kendra
www.kcbatirth.org
Acharya Shri Kalassagarsuri Gyarmandie
तव वाभ्यात् । कोपेन वा राम पिता भवत्या किञ्चित्परुपमुक्तः कच्चिद । यत्र येनास्य मनः लुलितं कलुषितम् ॥१७॥ एतदिति । किंनिमित्तमित्या याचक्ष्वेति पूर्वोक्तस्य सर्व संग्रहः ॥ १८॥ एवमिति । एवम् इति । धृष्ट प्रत्यक्षतो रामानिष्टवचनविषयवैक्रव्यरहितम् ॥१९॥न राजेति ॥२०॥
एतदाचक्ष्व मे देवि तत्त्वेन परिष्टच्छतः । किंनिमित्तमपूर्वोऽयं विकारो मनुजाधिपे ॥ १८॥ एवमुक्ता तु कैकेयी राघवेण महात्मना। उवाचेदं सुनिर्लज्जा धृष्टमात्महितं वचः॥१९॥ न राजा कुपितो राम व्यसनं नास्य किञ्चन । किञ्चिन्मनोगतं त्वस्य त्वद्भयान्नाभिभाषते ॥२०॥प्रियं त्वामप्रियं वक्तुं वाणी नास्योपवर्तते । तदवश्यं त्वया कार्य यदनेनाश्रुतं मम ॥२१॥ एष मह्यं वरं दत्त्वा पुरा मामभिपूज्य च । स पश्चात्तप्यते राजा यथान्यः प्राकृतस्तथा ॥२२॥ अतिसृज्य दानीति वरं मम विशापतिः। स निरर्थ गतजले सेतुं वन्धितुमिच्छति ॥२३॥ धर्ममूलमिदं राम विदितं च सतामपि । तत्सत्यं न त्यजेद्राजा कुपितस्त्वत्कृते यथा ॥ २४ ॥ यदि तद्रक्ष्यते
राजा शुभं वा यदि वाशुभम् । करिष्यसि ततः सर्वमाख्यास्यामि पुनस्त्वहम् ॥ २५॥ त्वद्भयादित्यस्य विवरणम्-प्रियमिति । आश्रुतं प्रतिज्ञातम् ॥२१॥ तत्किमित्यपेक्षायां सामान्यतो दर्शयति-एप इत्यादिना ॥२२॥ अतिसृज्येति । आतिसृज्य प्रतिज्ञाय । गतजले सेतुं बन्धितुमिच्छतीति दानस्य पूर्वमेव कृतत्वात् इदानी तत्परिहारव्यापारो व्यर्थ इति भावः ॥२३॥ धर्ममूलमिति । इदं जगद्धर्ममूलम् । इदं च सतां विदितं सद्भिर्विदितम् । “क्तस्य च वर्तमाने” इति षष्ठी । तत्तस्मात्सत्यं सत्यरूपधर्मम् । राजा त्वत्कृते त्वत्प्रयोजनाय । मयि कुपितः सन् यथा न त्यजेत् तथा कुर्वित्यर्थः ॥२४॥ तर्हि तद्विशेषतो वक्तव्यमित्यत्राह-यदीति । शुभमशुभं वा तत्प्रतिज्ञातं राजा यत् । एवमिति । सुनिर्लज्जा पत्युरेवं केशकरणं कथं वक्ष्यामीति लज्जारहिता । धृष्टम् प्रत्यक्षतो वनं गच्छेत्येवंवचनकधाष्टोपेतं यथा तथा । आत्महितम् स्वपुत्राभिषेक विषयं मनोगतं वचः उवाच ॥ १९ ॥ २० ॥ प्रियमिति । आश्रुतं प्रतिश्रुतम् ॥ २१ ॥ किं तबाह-एष इति ॥ २२ ॥ अतिसज्येति । प्रतिश्चत्य, जले गते सेतुं
बन्धितुमिच्छति । दानस्य पर्वमेव प्रत्तत्वात तत्प्रयुक्तव्यवहारचिन्ता व्यर्धेत्यर्थः ॥ २३ ॥ धर्ममूलमिति । इदं सत्यम् । धर्मस्य मूलमिति सतामपि विदितम् II Italअतः तत्सत्यं सत्यवचनमा स्वकते त्वन्निमिनम त्वित्प्रयोजनान्तरायवशात मयि कुपिनो राजा कोपदोषेण यथान त्यजेत तथा कुर्विति शेषः ॥ २४ ॥ दशरयात्रा
मिव राममपि प्रतिज्ञावाक्यं वाचयितुमुपक्रमते-यदीत्यादिना । राजा यक्ष्यते तत्करिष्यसि यदि, ततः ताहि राज्ञो विवक्षितमहमेवाख्यास्यामीत्यर्थः ॥२५॥
For Private And Personal Use Only