________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वा.रा.भ.
टी.अ.को.
चित्तक्लेशः । इति चिन्तयामासेत्यन्वयः॥९॥ १० ॥ कञ्चिदिति । नापराद्धमपराधो न कृतः। अज्ञानात् प्रमादात् ॥ १३॥ १२॥ शारीर इति शारीरः सन्तापो व्याधिः। मानसोऽभिताप आधिः। दुर्लभं हीति पुण्यपापारब्धत्वान्मानुपशरीरस्पति भावः ॥ १३॥ कचिदिति । मातृणामिति निदा
स दीन इव शोकात्तों विषण्णवदनद्युतिः । कैकेयीमभिवाद्यैव रामो वचनमब्रवीत् ॥ १०॥ कच्चिन्मया नापराद्ध मज्ञानाद्येन मे पिता। कुपितस्तन्ममाचक्ष्व त्वं चैवैनं प्रसादय ॥१॥ अप्रसन्नमनाः किं नु सदा मां प्रति वत्सलः। विवर्णवदनो दीनो न हि मामभिभाषते ॥ १२॥ शारीरो मानसो वापि कच्चिदेनं न बाधते । सन्तापो वाभितापो वा दुर्लभं हिसदासुखम् ॥ १३॥ कच्चिन्न किञ्चिद्भरते कुमारे प्रियदर्शने । शत्रुन्ने वा महासत्त्वे मातृणां वा ममा शुभम् ॥१४॥ अतोषयन्महाराजमकुर्वन् वा पितुर्वचः । मुहर्तमपि नेच्छेयं जीवितुं कुपिते नृपे ॥१५॥ यतोमूलं नरः पश्येत् प्रादुर्भावमिहात्मनः । कथं तस्मिन्न वर्तेत प्रत्यक्ष सति दैवते ॥ १६॥ कच्चित्ते परुष किश्चिदभिमानात्
पिता मम। उक्तोभवत्या कोपेन यत्रास्य लुलितं मनः॥ १७॥ रणे पष्ठी । कचिदिति प्रश्ने। किञ्चिदशुभं न कच्चिदितिसम्बन्धः॥१४॥१५॥ यत इति । इह जगति । नरः आत्मनो देहस्य। प्रादुर्भावम् उत्पत्तिम् । यतोमूलं यत्कारणकं पश्येत् प्रत्यक्षे दैवते सति सिद्धे तस्मिन् पितरि कथं न वत्तेत, तशे एव वत्ततेत्यर्थः ॥ १६॥ कच्चित्त इति । ते अभिमानात रामः शोकार्तस्सन वचनमब्रवीदिति सम्बन्धः ॥९॥ १०॥ कञ्चिदिति । नापराद्धम् अपराधो म कृतः । अज्ञानात प्रमादात् ॥ ११ ॥ १२ ॥ शारीर इति । शारीरस्सन्तापो व्याधिः, मानसोऽभिताप आधिः एवं न बाभते कञ्चित् कुतः प्राणिनां सुखम् , सदा दुर्लभं हीत्यर्थः ॥ १३ ॥ कश्चिदिति । मातृणां वा विषय इति शेषः । अशुभं न कञ्चित् ॥ १४ ॥ अतोषयन्निति । नृपे कुपिते सति किमु वक्तव्यमित्यर्थः ॥ १५॥ यत इति । यो नरः । इहात्मनः प्रादुर्भाव शरीरस्य परिपहम् । यतोमूलं यन्मूलं यत्कारणकं पश्येत् जानीयात । अलगार्षः । सोऽसौ विवेकी, उक्तहेतोरेव प्रत्यक्षे देवते सिद्धे सति, तस्मिन पितरि पित्रानुकल्ये, न
कथं वर्तते वर्तेतेवेत्यर्थः ॥१६॥ कञ्चिदिति । ते तव कोपेन अभिमानात् गर्वेण वा मम पिता परुषम् उक्तः कञ्चित्, यत्र येन मनो लुलितं कलुषितम् ॥ १७॥१८॥ NI विषम-दीन व विषण्णवदनद्युतिरिख स रामः । शोकात वनमनीदिति सम्बन्धः ॥ सत्य-विषयवदनाना प्रतिस्मात् स विषण्णवदनातिः । तेषां ग्रुतिरिख युतिरितिवार्थः । येन देन्यादिक देव
देवेसांचा नास्तीति योतयति कविः । मभित्रायवेपनेन राजमर्यादा योगते ॥ १०॥
२॥
For Private And Personal Use Only