________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
HTI.T.ital
॥७१॥
मानलक्षणाधिष्ठानसमेतगृहेः । पृथिव्यां गृहवरम्, पृथिव्यामद्वितीयमित्यर्थः । पितुर्वेश्म पितृवासस्थानम् ॥ १७-१९ ॥ स इति । वाजिभिः रथयुक्त । जिभिः। पदातिः पादचारी ॥ २०॥ स इति । शुद्धान्तम् अन्तःपुरम् ॥२१॥ २२॥ इति श्रीगो श्रीरामा• पीतां• अयो० सप्तदशः सर्गः ॥१७॥ तत्पृथिव्यां गृहवरं महेन्द्रभवनोपमम् । राजपुत्रः पितुर्वेश्म प्रविवेश श्रिया ज्वलन् ॥ १९॥ स कक्ष्या धन्विभि गुप्तास्तिस्रोऽतिक्रम्य वाजिभिः। पदातिरपरे कश्ये द्वे जगाम नरोत्तमः ॥२०॥ स सर्वाः समतिक्रम्य कक्ष्या दशरथात्मजः। सन्निवर्त्य जनं सर्वं शुद्धान्तं पुनरभ्यगात् ॥२१॥ ततः प्रविष्ट पितुरन्तिकं तदा जनः स सर्वो मुदितो नृपात्मजे। प्रतीक्षते तस्य पुनर्विनिर्गमं यथोदयं चन्द्रमसः सरित्पतिः ॥ २२ ॥ इत्या श्रीरामायणे वाल्मीकीये आदिकाव्ये श्रीमदयोध्याकाण्डे सप्तदशः सर्गः ॥ १७॥ स ददर्शासने रामो निषण्णं पितरं शुभे । कैकेयीसहितं दीनं मुखेन परिशुष्यता ॥ १ ॥ स पितुश्चरणौ पूर्वमभि वाद्य विनीतवत् । ततो ववन्दे चरणौ कैकेय्याः सुसमाहितः ॥२॥ रामेत्युक्त्वा च वचनं बाष्पपर्याकुलेक्षणः ।
शशाक नृपतिर्दीनो नेक्षितुं नाभिभाषितुम् ॥ ३ ॥ स इति । आसने पर्यङ्के । 'मूच्छितो न्यपतत्तस्मिन् पर्यङ्के हेमभूषिते' इत्युत्तरत्र वक्ष्यमाणत्वात् । मुखेनेत्युपलक्षणे तृतीया ॥ १ ॥२॥ रामेति । आवारयद्भिः आक्रमद्भिः, बर्द्धमानगृहैः अत्पुन्नतनिर्माणायारधारा है।। रत्नजालपरिष्कृतैः नवरत्नसमहालंकृतः, एतैः परिवृतं पितुर्वेश्म राजपुत्रः श्रीरामः प्रविवेश ॥ १७-१९ ॥ स इति । वाजिभिः रथयुक्तवाजिभिरित्यर्थः ॥ २०-२२ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्यायाम् अयोध्या काण्डव्याख्या सप्तदशः सर्गः ॥ १७ ॥ स इति । आसने पर्यङ्के, मुखेनोपलक्षितम् ॥१॥ स इति । विनीतबत् विनीतः सन् ॥ २॥ रामेति । न शशाक ॥ सत्य-महेन्दसदनस्य उपमा वेग तामहेन्द्रसदनोपमम् । अनेन गृहबरमिन्युचितामियुक्तं भवति ॥ १९॥ पदातिः पदारसन । अतिक्रम्पत्यवेति ॥२०॥
For Private And Personal Use Only