________________
Shri Mahavir Jain Aradhana Kendra
बा.रा. ॥६९॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
यथार्हमिति वीक्षण भ्रूक्षेपवचनाञ्जलिप्रणामादिभिरित्यर्थः ॥ ६ ॥ ७ ॥ पितामहैरिति । अद्याभिषिक्तस्त्वं पितामहाद्यैराचरितं तं प्रसिद्धं मार्गे मर्यादामनुपालय ॥ ८ ॥ यथेति । रामे राजनि सति । सर्वे वयं ततः पूर्वस्मात्र सुखतरं यथा भवति तथा वत्स्यामः || ९ || अलमिति । भुक्तेन आशीर्वादान बहून शृण्वन् सुहृद्भिः समुदीरितान् । यथा चापि सम्पूज्य सर्वानेव नरान् ययौ ॥ ७ ॥ पितामहैराचरितं तथैव प्रपितामहः । अद्योपादाय तं मार्गमभिषिक्तोऽनुपालय ॥ ८ ॥
यथा स्म लालिताः पित्रा यथा पूर्वैः पितामहैः । ततः सुखतरं रामे वत्स्यामस्सति राजनि ॥ ९ ॥ अलम हि भुक्तेन परमार्थैरलं च नः । यथा पश्याम निर्यान्तं रामं राज्ये प्रतिष्ठितम् ॥ १० ॥ ततो हि नः प्रियतरं नान्यत् किमिद्भविष्यति । यथाभिषेको रामस्य राज्येनामिततेजसः ॥ ११॥ भोजनेन । परमार्थैः परमपुरुषार्थसाधनभूतैः, जपहोमध्यानादिभिरित्यर्थः । राज्ये प्रतिष्ठितं अभिषिक्तम्, पुनः स्वगृहाय निर्यान्तम् । यथा यथावत् पश्याम । प्रार्थनायां लोट् ॥ १० ॥ तत इति । राज्येनाभिषेको राज्यायाभिषेकः । स यथा प्रियतरस्तथा ततोऽन्यत्प्रियतरं किञ्चिन्नास्ति ॥ ११ ॥ पूजिताङ्गणम् । यथा वा यथार्हमेव रक्षणोक्तिभ्रूविक्षेपणवचनाञ्जलिभिर्यथोचितमित्यर्थः ॥ ६ ॥ ७ ॥ पितामहेरिति । आचरितम् अनुष्ठितम्, अभिषिक्तोनुपाल येति वृद्धानां वचनम् ॥ ८ ॥ यथेति । रामे राजनि सति ततोपि सुखतरं वत्स्यामः ॥ ९ ॥ अलमिति । रामं राज्ये प्रतिष्ठितम् अभिषिक्तम् । राजमार्गे निर्यान्तम् अद्य पश्याम यथा साक्षात्कुमों यदि एतत्सुखलाभो यदि तदा भुक्तेन ऐहिकविषयेण तज्जन्यसुखेन च तथा परमार्थः परमैः श्रेष्ठैः अर्थः स्वर्गादिभिः तज्जन्य सुखैश्च नः अस्माकम् अलं मास्तु ॥ १० ॥ कथमेवमित्यत आह- तत इति । अमिततेजसः रामस्य, राज्येन राज्यप्राप्तिहेतुना। अभिषेको यथा अभिषेक इति यत्
सत्य० - समुदीरितानित्यत्र समुद्र इत्यपि पदविभागः । एतेन नित्यमुदो रामस्य सुहृदीरिताशीर्वादश्रवणं तदनुजिघृक्षयेत्युक्तं भवति ॥ ७ ॥ पितृपितृभिः पितामहः । तत्पितृभिः प्रपितामहः । पितामहेरितिछेदो या पितेति प्रथमा तृतीयार्थे यः पिता तेनेति शेषो या । पित्रा दशरथेन । महत्सबै रित्यस्य ययाविति पूर्वेणान्वयः । एतेनोत्तरत्र पित्रेत्यनुवादायोग इति निरस्तम् ॥ ८ ॥ पितामहः पितामहादिभिः । कर्णा च सप्तानाम् ' इत्यत्र यहुवचनमापर्थे यथा चित्रा लालिताः यथा च पितामहादिभिः तथा त्वया लालितास्सन्तो वत्स्याम इति लालनं त्रितयसाधारणम् । ततः सुखतरमिति विशेषोक्तेः । " शैला इवोजताः सन्तः किन्तु प्रकृतिकोमला "इतिवयतिरेकालङ्कारः ॥ ९ ॥ भुक्तेन मावे क्तः । भोजनेन अहम् परमा अर्थ येभ्यस्तैः परमार्थेः इतरविषयेरलम् । "अलं भूषणपर्याप्तिवारणे च निरर्थके " इतिविश्वः । भोजनादि निरर्थकमिति मावः । एतेन "नमः स्वस्ति" इत्यनेन चतुर्थ्या मान्यत्वात् कथं तृतीयेति शङ्कानवकाशः तत्र पर्याप्त्यर्थालंशब्दयोग एवं चतुर्थ्याः काशिकादावुकेरिति भावः । तत्प्राप्यफलस्य तादृशराम दर्शनेन सिद्धेः । परमार्थः परमाः प्रमाणानि वेदान्ता इति यावत् । विचारितस्तदर्थस्तमितिवार्थः ॥ १० ॥ प्रियतरमित्येतयित्यासेनाभिषेकपदेनाप्यन्वेति । यचाभिषेकः वियतरः तथान्यप्रियतरं नास्तीत्यर्थः ।
For Private And Personal Use Only
टी.अ.का. स० [१७
॥६९॥