________________
Shri Mahar Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kalassagarsur Gyarmandie
वा.रा.भ. ॥६॥
मधिकृत्य प्रवृत्ताः । पुरः पुरस्य सम्बन्धिनो जनस्य ॥४३॥ एष इति । श्रियं गमिष्यन् गच्छति श्रियं प्राप्तुं गच्छति ॥४४॥ लाभ इति । अस्य टी.अ.का. जनस्यायमेव लाभः यदेष सर्व राष्ट्र प्रपत्स्यते अस्मिन् मनुजाधिपे सति कश्चित् जातु कदाचित् । किञ्चनाप्यप्रियं प्रियाभावं दुःखमनिष्टं च न पश्येत् ।। ॥४५॥ सघोषवद्भिरिति । स्वस्तिकसूतमागधैः स्वस्तिकाः जयजयेतिमङ्गलं प्रयुञ्जानाः, बन्दिनः इत्यर्थः । सूताः ब्राह्मण्यां क्षत्रियाजाताः सारथ्ये।
एष श्रियं गच्छति राघवोऽद्य राजप्रसादादिपुलां गमिष्यन् । एते वयं सर्वसमृद्धकामा एषामयं नो भविता प्रशास्ता ॥४४॥ लाभो जनस्यास्य यदेष सर्व प्रपत्स्यते राष्ट्रमिदं चिराय । न ह्यप्रियं किञ्चन जातु कश्चित् पश्यन्न दुःखं मनुजाधिपेऽस्मिन् ॥४५॥ स घोषवद्भिश्च हयैर्मतङ्गजैः पुरस्सरैः स्वस्तिकसूतमागधैः। महीयमानः प्रवरैश्च वादकैरभिष्ठतो वैश्रवणो यथा ययौ ॥४६॥ करेणुमातङ्गरथाश्वसङ्कलं महाजनौघप्रतिपूर्णचत्वरम् । प्रभूतरत्नं बहुपण्यसञ्चयं ददर्श रामो रुचिरं महापथम् ॥ ४६॥ इत्यार्षे श्रीरामायणे वाल्मीकीये आदिकाव्ये
श्रीमदयोध्याकाण्डे षोडशः सर्गः ॥ १६॥ स्तुतिकर्मणि च नियुक्ताः । “ब्राह्मण्यां क्षत्रियात्सूतः" इत्यमरः । मागधाः क्षत्रियायां वैश्याजाताः। राज्ञा प्रबोधनकर्मणि नियुक्ताः “मागधःक्षत्रि याविशोः" इत्यमरः॥४६॥ करेण्विति । रामो महापथं ददशेत्यन्वयः ॥ १७॥ इति श्रीगोविन्दराजविरचिते श्रीरामायणभूषणे पीताम्बराख्याने अयोध्याकाण्डव्याख्याने पोडशः सर्गः ॥ १६॥ एष इति । राघवः विपुलां श्रियं गमिष्यन् गच्छतीति योजना । सर्वसमृद्धकामः समृद्धसर्वकामः ॥४३॥ लाभ इति । एष सर्व राष्ट्र प्रपत्स्यत इति यत् अयमेव लाभः,II अस्मिन् रामे मनुजाधिपे । कश्चन यः कश्चिदपि, किचन स्वल्पमपि अप्रियं प्रियाभावम् , दुःखमनिष्टप्राप्तिं च जातु कदाचिदपि । न पश्येत् न प्राप्नुयात् ॥४४॥४५॥ स घोषवद्भिरिति । स्वस्तिकाः जयजयतिवादिनो बन्दिन इत्यर्थः । सूताः ब्राह्मण्यां क्षत्रियाजाताः, क्षत्रियाय वैश्याजाताः मागधाः । एते राज्ञः प्रतिबोधन कर्मणि युक्ताः ॥ ४६॥ ४७ ॥ इति श्रीमहेश्वरतीर्थविरचितायां श्रीरामायणतत्वदीपिकाख्यायाम् अयोध्याकाण्डव्यायायां षोडशः सर्गः॥ १६ ॥
%
4
For Private And Personal Use Only