________________
Shri Mahavir Jan Aradhana Kendra
Acharya Shri Kalassagarsun Gyarmandie
च
शब्दः । तस्य निष्कममाणस्य तस्मिन्निष्कममाणे सति जनौ घस्य हलहलाशब्द इत्यन्वयः॥ ३३ ॥ तत इति । हयनागशब्दो तदारुढपरौ ॥ ३४॥ अग्रत इति । रूपिताः लिप्ताः । आशंसवः रामश्रेय आशंसमानाः ॥ ३५ ।। तत इति । ततः तत्र वीथ्याम् । तदा निर्गमनकाले ॥ ३६॥ हर्म्यवाता ततोहयवरा मुख्या नागाश्च गिरिसन्निभाः।अनुजग्मुस्तदा रामं शतशोऽथ सहस्रशः ॥३४॥ अग्रतश्चास्य सन्नद्धाश्चन्दनागरुरूषिताः । खड्गचापधराः शूरा जग्मुराशंसवो जनाः ॥ ३५ ॥ ततो वादिवशब्दास्तु स्तुतिशब्दास्तु वन्दिनाम् । सिंहनादाश्च शूराणां तथा शुश्रुविरे पथि ॥ ३६॥ हर्म्यवातायनस्थाभिभूषिताभिस्समन्ततः । कीर्य माणः सुपुष्पौधैर्ययौ स्त्रीभिररिन्दमः ॥ ३७॥ रामं सर्वानवद्याङ्गयो रामपिप्रीषया ततः । वचोभिरग्र्यैर्हर्म्यस्थाः क्षितिस्थाश्च ववन्दिरे ॥ ३८॥ नूनं नन्दति ते माता कौसल्या मातृनन्दन। पश्यन्ती सिद्धयात्रं त्वां पित्र्यं राज्य मवस्थितम् ॥ ३९॥ सर्वसीमन्तिनीभ्यश्च सीतां सीमन्तिनीवराम्। अमन्यन्त हि ता नार्यों रामस्य हृदयप्रियाम् ॥४०॥ तया सुचरितं देव्या पुरा नूनं महत्तपः । रोहिणीव शशाङ्केन रामसंयोगमाप या ॥४१॥ इति प्रासाद शृङ्गेषु प्रमदाभिर्नरोत्तमः । शुश्राव राजमार्गस्थः प्रिया वाच उदाहृताः ॥४२॥ स राघवस्तत्र कथाप्रपञ्चान् शुश्राव लाकस्य समागतस्य । आत्माधिकारा विविधाश्च वाचः प्रष्टरूपस्य पुरो जनस्य ॥४३॥ यनस्थाभिरिति । हर्म्यवातायनस्थाभिः प्रासाद्गवाक्षस्थाभिः ॥३७॥ राममिति । रामपिप्रीपया रामप्रीणनेच्छया। ववन्दिरे तुष्टवुः । " वदि । अभिवादनस्तुत्योः" इति धातुः॥३८॥ स्तुतिप्रकारमेवाह-नूनमित्यादि। नन्दतीत्यत्रेतिकरणं द्रष्टव्यम् । तस्य ववन्दिर इति पूर्वण सम्बन्धः।। सिद्धयात्रं सफलगमनं अतएव पित्र्यं राज्यम् । अवस्थितं अधिषितम् ॥ ३९ ॥ उत्तरश्चोकायहेतुत्वेनाइ-सर्वेति । हि यस्मात्कारणात् । एवं तस्मात् तया सुचरितमित्युक्तरीत्या प्रमदाभिरुदीरिता इति योजना ॥४०-४२।। स इति । कथाप्रपञ्चान् लोकिककथाविस्तारान् । आत्माधिकाराः आत्मान अग्रत इति । आशंसवः भद्रमिति शेषः ॥३५॥३६॥ हम्येति । वातायनंगवाक्षः ॥३७॥राममिति । रामपिनीषया रामप्रीणनेच्छया । ववन्दिरे अस्तुवन् ॥३८॥ स्तुति प्रकारमेवाह-नूनमिति निन्दतीत्यत्रेतिकरणं दृष्टश्यम् । उपस्थितं प्रातवन्तम्। सिद्धयात्रं सफलगमनम् ॥३९ ॥ सर्वेति । दि यस्मात् ता नार्यः सीता सर्वसीमन्तिनीभ्यो बराममन्यन्त, तस्मात्प्रमदाभिरुदाहता तया सुचरितमित्यादिवाचः शुश्रावेति सम्बन्धः ॥४०-१२॥ स इति । आत्माधिकाराः आत्मानमधिकृत्य प्रवृत्ताः॥४३॥
For Private And Personal Use Only