SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra बा.रा.भू. ॥६७॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandin अथेति । कृतकौतुकमङ्गलः अनुष्ठिताभिषेकार्थमङ्गलः ॥ २५ ॥ पर्वतादिति । द्वारि प्रथमद्वारि । प्रह्लाअलिपुटम् अञ्जलिपुटोऽस्यास्तीत्य अलिपुटः। मत्वर्थी योच्प्रत्ययः । प्रहृश्वासाव अलिपुटश्वेति कर्मधारयः । तम् ॥ २६ ॥ अथेत्यादिश्लोकद्वयम् । अर्थिनः रामदर्शनार्थिनः अभिषेकार्थिनो वा । वैयात्रं व्याघ्र चर्मपरि अथ सीतामनुज्ञाप्य कृतकौतुकमङ्गलः । निश्चक्राम सुमन्त्रेण सह रामो निवेशनात् ॥ २५ ॥ पर्वतादिव निष्क्रम्य सिंहो गिरिगुहाशयः । लक्ष्मणं द्वारि सोपश्यत् प्रह्वाञ्जलिपुटं स्थितम् ॥ २६ ॥ अथ मध्यमकक्ष्यायां समागम्य सुहृज्जनैः । स सर्वानर्थिनो दृष्ट्वा समेत्य प्रतिनन्द्य च ॥ २७ ॥ ततः पावकसङ्काशमारुरोह रथोत्तमम् । वैयाघ्रं पुरुषव्याघ्री राजतं राजनन्दनः ॥ २८ ॥ मेघनादमसम्बाधं मणिहेमविभूषितम् । मुष्णन्तमिव चक्षूंषि प्रभया सूर्यवर्चसम् ॥ २९ ॥ करेणुशिशुकल्पैश्च युक्तं परमवाजिभिः । हरियुक्तं सहस्राक्षो रथमिन्द्र इवाशुगम् । प्रययौ तूर्णमास्थाय राघवो ज्वलितः श्रिया ॥ ३० ॥ स पर्जन्य इवाकाशे स्वनवानभिनादयन् । निकेतान्निर्ययौ श्रीमान् महेन्द्रादिव चन्द्रमाः ॥ ३१ ॥ छत्रचामरपाणिस्तु लक्ष्मणो राघवानुजः । जुगोप भ्रातरं भ्राता रथमास्थाय पृष्ठतः ॥ ३२ ॥ ततो हलहलाशब्दस्तुमुलः समजायत । तस्य निष्क्रममाणस्य जनौघस्य समन्ततः ॥ ३३ ॥ वृतं " द्वैपवैयाघ्रादञ् " इत्यञ् । राजतं रजतविकारम् । राजन्तमिति च पाठः ||२७||२८|| मेघनादमित्यादि । मेघस्येव नादो यस्य स मेघनादस्तम् | असम्बाधं सम्बाधरहितम् । उचितविस्तारमित्यर्थः ॥ २९ ॥ करेणुशिशुकल्पैरिति । करेणुशिशुकल्पैः कलभसदृशैः ॥ ३० ॥ स इति । आकाशे स्वन वान् नादवान् । पर्जन्य इव मेघ इव । "पर्जन्यौ रसदब्देन्द्रौ " इत्यमरः । अभिनादयन् रथेन दिश इति शेषः । महेन्द्रशब्दः उदद्याद्विपरः ॥३१॥ छत्र | चामरपाणिरिति । एकहस्तेन छत्रम् अपरहस्तेन चामरं च धारयन्नित्यर्थः । जुगोप आतपादिभ्यः इति भावः ॥ ३२ ॥ तत इति । हलहलाशब्दः कलकला अथेति । कृतकौतुकमङ्गलः अनुष्ठिताभिषेकार्थमङ्गलः ॥२५॥२६॥ अर्थिनः अभिषेकार्थिनः ॥२७॥ तत इति । वैयाघ्रं व्याघ्रचर्मयुक्तम् ॥ २८ ॥ मेघनादमिति । अस बाधं विपुलम् ॥ २९ ॥ करेण्विति । करेणुशिशुकल्पैः कलमनिभैः ॥ ३० ॥ स पर्जन्य इति । आकाशे स्वनवान् नादवान् पर्जन्य इव नादयन, रथस्वनेन दिशो नाद यत्रित्यर्थः ॥ ३१ ॥ ३२ ॥ तत इति । हलहलेत्यनुकरणम् । तस्येति सप्तम्यर्थे षष्ठी । तस्मिन्निष्क्रमणकाले ॥ ३३ ॥ ३४ ॥ For Private And Personal Use Only टी.अ.कां. स० १६ ॥६७॥
SR No.020792
Book TitleValmiki Ramayanam Part 02
Original Sutra AuthorN/A
AuthorAmar Publication
PublisherAmar Publication
Publication Year
Total Pages691
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy