________________
Shri Mahavir Jain Aradhana Kendra
www.kobaith.org
Acharya Shri Kailassagarsur Gyarmandir
पत्या स्वकण्ठादुन्मुच्य दत्तमुक्तामालिकेत्यर्थः । पादपल्लवस्पर्शपूर्वकं सान्वितोत भट्टारकाः। तदईवज्ञापनाय तलक्षण्यं दर्शयति सीतेति । सीता लाङ्गलपद्धतिः, तज्जत्वात्सीता । अयोनिजाभावेन स्वस्माद्विलक्षणायां तस्यां तादृशी प्रीतिरुचितेवेति भावः । असितेक्षणा रामेण मालायां दत्ताया मियमपि लोचनाभ्यां कुवलयमालां दत्तवती । भरिमाद्वारमनुवबाज आत्मानमनवरतं हृदये विभ्रतो रामस्य विरहासहतया स्वगमनयोग्यदेशपर्य्यन्त
राज्यं द्विजातिभिर्जुष्टं राजसूयाभिषेचनम् । कर्तुमर्हति ते राजा वासवस्येवलोककृत् ॥२२॥ दीक्षितं व्रतसम्पन्नं वराजिनधरं शुचिम्। कुरङ्गशृङ्गपाणि च पश्यन्ती त्वां भजाम्यहम् ॥२३॥
पूर्वी दिशं वचधरो दक्षिणां पातुते यमः। वरुणः पश्चिमामाशां धनेशस्तूत्तर दिशम् ॥२४॥ मनुजगाम । मङ्गलान्यभिदध्युषी अभिध्यायन्ती किमस्य सौन्दर्य्यस्य हानिर्भविष्यतीति कलुषितहृदया मङ्गलाशासनपूर्वकमनववाज ॥२१॥मला भिध्यानमेव दर्शयति-राज्यमिति । द्विजातिभिः ब्राह्मणेः जुष्टं सेवितं राजसूयाभिषेचनं राजसूययागे योऽभिषेकः 'अथाभिषिच्यते' इत्युच्यमानः तदर्हम् अनेन महाराज्यवत्त्वं गम्यते । कर्तुं दातुम् । लोककृत् ब्रह्मा ॥२२॥ दीक्षितमिति । दीक्षितं सकृष्णाजिनम् । नवनीताभ्यक्तं यजमानवेषं द्रष्टुमिच्छामीत्याह व्रतसम्पन्नम् । ऋषिणोपवस्तव्यमित्युक्ते मम सौकुमार्यानुगुणमेवमुक्तमिति मत्वा चतुर्गुणमुपवासं करोति श्रद्धया। तदाह सम्पन्नमिति। वराजिनधरं वस्त्र धारणादप्यजिनधारणस्योत्कर्ष उच्यते । शुचिं कामपि स्त्रियं मास्पृश धर्मपत्नीत्वेन सीतास्पर्श न दोष इति मुनिनोक्तेपि शङ्कया सीतावस्त्रदशास्पशैपि
सानं करोति । कुरङ्गशृङ्गपाणि च एकवस्त्रधरो धन्वीत्येतदपेक्षया कण्डूयनाथै कृष्णविषाणकृतशोभातिशय उच्यते । पश्यन्तीत्वां भजाम्यहं भाविफला पापेक्षायां कतायामान्तरालिकफलमर्थसिद्धमेव । अतोऽभिषेकान्तरायविरहो न प्रार्थितः। यथा सावित्री भत्तारं दर्शयित्वानेनाहमनेकपत्रा स्यामित्यथित वती। तेन सिद्धं भर्तुः पूर्णायु प्रार्थनम् । तद्वत् पश्यन्तीति हेतौ शत्प्रत्ययः । दर्शनार्थमित्यर्थः। दर्शनार्थ हि भगवन्तं भजन्ते अत इयमपि तथैवाह ॥२३॥ पूर्वामिति । उत्तरी दिशमित्यनन्तरं इति मङ्गलान्यभिदध्युषीति योज्यम् । भर्तृविषयत्वेन न वाचोक्तवतीति भावः॥२४ ॥ अभिदध्युषी अभिध्यायन्ती ॥ २१ ॥ राज्यमिति । इदानीं राज्यं राज्यसिद्धि प्रति द्विजादिभिर्जुष्टं प्रयुक्तम् आभिषेचनं यौवराज्याभिषेचनं कर्तुम् अहति । कालान्तर राजसूयाहमहाराजाभिषेचनमपि करोतु, लोककृत ब्रह्मा । ततो राजसूययागे दीक्षितत्वादिधर्मकं त्वां भजामि भजिष्ये ॥ २२-२४ ॥
For Private And Personal Use Only