________________
Shri Mahavir Jain Aradhana Kendra
वा.रा.भू. ॥६६॥
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| संहितम् अभिषेचनसम्बन्धि मदर्थं किञ्चिन्मन्त्रयेते विचारयतः || १५ || महिष्या सहेत्युक्तत्योन्नेयमर्थं दर्शयति- लक्षयित्वेति । सुदक्षिणा सुकुशला अत एव राज्ञोऽभिप्रायं लक्षयित्वा वृद्धत्वात् भरतागमनपर्यन्तं न विलम्बः कार्य इति राजाशयं ज्ञात्वा मत्प्रियकामा सती राजानं प्रति मदर्थे मदाभिषेकं सञ्चो दयति । एतदानुकूल्यं त्वत्सौभाग्यफलमित्याह मदिरेक्षण इति ॥ १६ ॥ सन्दिग्धोक्ति जनितां सीताशङ्कां वारयति सेति । प्रहृष्टा मयीतिशेषः । हित लक्षयित्वा ह्यभिप्रायं प्रियकामा सुदक्षिणा । सञ्चोदयति राजानं मदर्थं मदिरेक्षणे ॥ १६ ॥ सा प्रहृष्टा महाराजं हितकामानुवर्त्तिनी । जननी चार्थकामा मे केकयाधिपतेः सुता ॥ १७ ॥ दिष्ट्या खलु महाराजो महिष्या प्रियया सह । सुमन्त्रं प्राहिणोद्भूतमर्थकामकरं मम ॥ १८ ॥ यादृशी परिषत्तत्र तादृशो दूत आगतः । ध्रुवमद्यैव मां राजा यौवराज्येऽभिषेक्ष्यति ॥ २९ ॥ हन्त शीघ्रमितो गत्वा द्रक्ष्यामि च महीपतिम् । सह त्वं परिवारेण सुखमास्व रमस्व च ॥ २० ॥ पतिसम्मानिता सीता भर्त्तारमसितेक्षणा । आद्वारमनुवत्राज मङ्गलान्यभिदध्युषी ॥ २१ ॥ कामा, लोकस्येतिशेषः । महाराजं भर्तारम् अनुवर्तिनी मे अर्थकामा, भवतीति शेषः ॥ १७ ॥ १८ ॥ यादृशीति । तत्र अन्तःपुरे । यादृशी परिषत् परि सरवर्ती जनः, तादृशस्तत्तुल्यो दूतः ॥ १९ ॥ इन्तेति । इन्तेति हर्षे । परिवारेण परिचारिकासङ्गेन । रमस्व वृत्तकीर्त्तनेन रता भव ॥ २० ॥ अथ सीता रामस्य सौन्दर्यालंकृतिविशेषानालोक्य किंवा भविष्यतीति कलुषितहृदया तस्मै मङ्गलमाशासानानुव्रजति-पतिसम्मानितेति । पतिसम्मानिता अत्र महिष्या सहेत्युक्त्या उन्नेयार्थमुत्रयति-लक्षयित्वेत्यादिश्लोकद्वयमेकं वाक्यम् । केकयाधिपतेः सुता स्वस्य हिताय राजसौमुख्यादिप्रयोजनाय । कामम् अत्यन्तं राजानमनुवर्तत इति हितकामानुवर्तिनी जननी मे अर्थकामा मदर्थवृद्धयपेक्षिणी सा कैकेयी वृद्धेन मया अविलम्बेन रामाभिषेकः कार्य इति राज्ञो ऽभिप्रायम् । लक्षयित्वा आलोच्य सुदक्षिणा समर्थ अत एव राज्ञः प्रियकामा हृष्टा सती मदर्थं मदभिषेकं प्रति रञ्जयतीति राजा तं महाराजं चोदयतीति मन्य इत्यन्वयः ॥ १६ ॥ १७ ॥ कुत एवमित्यत आह-दिष्टयेति । मम अर्थकामं करोतीति तथा सुमन्त्रं प्राहिणोत ॥ १८ ॥ यादृशीति । तत्र अन्तःपुरे । यादृशी मदर्थैकप्रयोजना परिषत्, तादृशः मदर्थैकप्रयोजनः ॥ १९ ॥ हन्तेति । हन्तेति हर्षे । परिवारेण सखीसङ्गेन सह सुखम् अन्वतिष्ठ रमस्व ॥ २० ॥ पतीति
सत्य० - प्रयोजनकामेति प्रयोक्तन्ये यदर्थकामेति पुनः पुनराह तेन मन्निवृत्तिकामेत्यर्थो रामस्य संमतः सत्य अप्रति पदमवसम्मत इति ज्ञायते ।। १७ ।।
For Private And Personal Use Only
॥६६॥