________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कारण गाढमामि । अशा इत्यत्र विराजमानमित्रि शेष इत्याहुः । तदानीन्तना
विनयेन पार्श्वतश्चामरमुपवीज्य पुनस्तात्कालिकसुषमाविशेषबलात्कारेण गाढमाश्लिष्टम् । भूय इत्यत्र विराजमानमिति शेष इत्यप्याहुः। तदानीन्तना। तिशयं दृष्टान्तमुखेन स्पष्टीकरोति चित्रयेति । चैत्रपौर्णमास्यां चित्राख्यतारकयोपेतम् उदितं शशिनमिव स्थितम् । चित्रयेत्यनेन तत्कृतातिशय उक्तः। उपेतमित्यनेन रक्तवर्णत्वम् शशिनमित्यनेन सीतालिङ्गनोन्मृष्टचन्दनवक्षस्कत्वमुक्तम् । एवम्भूतं ददर्शति दृष्टिसाफल्यमुक्तम् ॥ १० ॥ शिरसो वाचश्च । तं तपन्तमिवादित्यमुपपन्नंस्वतेजसा । ववन्दे वरदं वन्दी विनयज्ञो विनीतवत् ॥११॥ प्राञ्जलिस्तु सुखं दृष्ट्वा विहार शयनासने । राजपुत्रमुवाचेदं सुमन्त्रो राजसत्कृतः ॥ १२॥ कौसल्या सुप्रजा राम पिता त्वां द्रष्टुमिच्छति । महिष्या सह कैकेय्या गम्यतां तत्र मा चिरम् ॥१३॥ एवमुक्तस्तुसंहृष्टो नरसिंहो महाद्युतिः। ततः सम्मानयामास
सीतामिदमुवाच ह ॥१४॥ देवि देवश्च देवी च समागम्य मदन्तरे। मन्त्रयेते ध्रुवं किञ्चिदभिषेचनसंहितम् ॥ १५॥ साफल्यमाह-तमिति । ववन्द इति शिरस ताफल्यमुक्तम् । वन्दीति वाक्साफल्यम् । वरदं स्वानुभवरूपवरप्रदम्, विनीतवत् विनीतो यथा साष्टाङ्गं वन्दत तथेत्यर्थः॥ ११॥ तनिक-आदित्यमित्येकत्वमविवक्षितम् । दिवि सूर्यसहस्रति वाक्यान्तरानुरोधात् । यहा आदित्यमिवेत्युक्ते विवक्षितसिद्धावपि तपन्तमादित्यमिवे। त्युक्त्या युगपदुदितरविसहस्रसमुदिततेजःपुअमिव तपन्तमिति लायते । तेनाभूतोपमा व्यज्यते। स्वतेजसेति स्वाभाविकासाधारणतेजसा न वन्यकतेन अन्यसाधारणेन चेत्यर्थः । तपन्तमादित्यमिव तेजसोपपन्नमितिसम्बन्धः । इन्दीवरश्याममिति स्वभावतः श्मामवर्णस्यादित्यवर्णत्वोक्त्या प्रदीपे वय॑न्तरस्थितनीलव्यक्तिवत् परितः प्रमृत । शुकभास्वरतेजःपुअवच विग्रहकान्त्योर्व्यवस्थिति?त्यते । तं वैश्रवणेत्यारण्य स्वतेजसेत्यन्तेन ध्येयशुभाश्रयाकारविशेषो व्यज्यते ॥ ११॥ प्राञ्जलिरिति । विहारशय ।। नासन इति द्वन्द्वकवद्भावः । विहारः गतिः॥ १२॥ कौसल्येति । सुप्रजाः, त्वयेतिशेषः। यदा कौसल्पायाः सुप्रजः सुपुत्र! असिच्प्रत्ययान्तः॥१३॥ एवमिति । सम्मानयामास, सूतमितिशेषः ।।१४॥ देवीति । मदन्तरे मदर्थम् । “अन्तरमवकाशावधिपरिधानान्तर्द्धिभेदतादयें" इत्यमरः । अभिषेचन । तमिति । विनीतवत् विनीतः सन् ॥ ११॥ प्राञ्जलिरिति । बिहारशयनासन इत्येकवद्भावः । राज्ञ एकान्तविहारशयनासनेषु राजसत्कृतः सुमन्त्रः राज्ञ एकान्त विहारादिप्वपि समीपवर्तीत्यर्थः ॥१२॥ कौसल्येति । कौसल्या सुप्रजाः सुपुत्रेण त्वयेति शेषः॥ १३ ॥ १४ ॥ देवीति । हे देवि ! देवश्च देवीच मातापितरौ । मदन्तरे मदर्थे । अभिषेचनसंहितम् अभिषेकोपयुक्तम् । किश्चित् किश्चिद्विचारोपेतम् । ध्रुवं मन्त्रयेते विचारं कुर्वाते ॥ १५ ॥
For Private And Personal Use Only